पूर्वमन्त्री सत्यदेवत्रिपाठेः निधनम्
लखनऊ, २३ मार्च मासः (हि.स.)। उत्तरप्रदेशसरकारस्य पूर्वमन्त्री सत्यदेवत्रिपाठेः रविवासरे हृदयाघातेन निधनम् अभवत्। सः स्वर्गीयराजीवगान्धिनः निकटस्थः आसीत्। उत्तरप्रदेशस्य कांग्रेससरकारमध्ये सः मन्त्रीपदं वहन्। समाजवादीपक्षस्य, कांग्रेसपक्षस्य, भारतीयजन
पूर्व मंत्री सत्येदव त्रिपाठी फाइल फोटो


लखनऊ, २३ मार्च मासः (हि.स.)। उत्तरप्रदेशसरकारस्य पूर्वमन्त्री सत्यदेवत्रिपाठेः रविवासरे हृदयाघातेन निधनम् अभवत्। सः स्वर्गीयराजीवगान्धिनः निकटस्थः आसीत्। उत्तरप्रदेशस्य कांग्रेससरकारमध्ये सः मन्त्रीपदं वहन्। समाजवादीपक्षस्य, कांग्रेसपक्षस्य, भारतीयजनतापक्षस्य च नेतारः तस्य निधनम् प्रति शोकं व्यक्तवन्तः। द्विसंवत्सराणि यावत् सः कांग्रेसपक्षे सक्रियः आसीत्। बहुवर्षाणि यावत् उत्तरप्रदेशकांग्रेसमीडियाविभागस्य प्रभारीपदं वहन्। किन्तु २०१९ तमे वर्षे अनुशासनहीनतायाः आरोपेण सः कांग्रेसपक्षतः निष्कासितः अभवत्। ततः परं सः भारतीयजनतापक्षस्य सदस्यत्वं स्वीकृतवान्।

हिन्दुस्थान समाचार