Enter your Email Address to subscribe to our newsletters
--अवध विश्वविद्यालये विकसित भारत यूथ पार्लियामेंट कार्यक्रमः सम्पन्न
अयोध्या, 24 मार्चमासः (हि.स.)।विकसित-भारत-यूथ-पार्लियामेंट-कार्यक्रमः डॉ० राममनोहर-लोहिया-अवध-विश्वविद्यालयस्य स्वामी-विवेकानन्द-सभागारे भव्यतया सोमवासरे सम्पन्नः।
अस्मिन् कार्यक्रमे विभिन्न-जनपदेषु स्थिताः ५० प्रतिभागिनः एकं देशं एकः चुनावः इत्यस्मिन विषये स्वीयान् उन्नत-विचारान् प्रदत्तवन्तः। जूरी-दलेन १० युवा-प्रतिभागिनः राज्य-स्तरीय-यूथ-पार्लियामेंट-कार्यक्रमाय चयनिताः।
कार्यक्रमे राज्य-संपर्क-अधिकारी डॉ० मंजू-सिंह, क्षेत्रीय-निदेशकः समरदीप-सक्सेना, प्रो० मो० शाहिद्, जिला-युवा-अधिकारी सुधीर-पाण्डेय इत्येते चयनित-युवानः प्रमाणपत्रं मेडलं च प्रदाय सम्मानितवन्तः।
राष्ट्रिय-सेवा-योजना-समन्वयकः प्रो० अनुज-कुमार- पटेल उक्तवान् यत् भारत-सरकारेण अयोध्या-जनपदः नोडल-जनपद-रूपेण निर्दिष्टः। अत्र गोंडा, बहराइच, अम्बेडकरनगर-जनपदाः अयोध्यायाः संबद्धाः।
एतेषु जनपदेषु स्थिताः ५० प्रतिभागिनः एकं देशं, एकः चुनावः इत्यस्मिन विषये स्व-विचारान् व्यक्तवन्तः। जूरी-दलेन १० युवानः राज्य-स्तरीय-यूथ-पार्लियामेंट-कार्यक्रमाय चयनिताः।
अस्य आयोजनस्य सफलतायै एनएसएस-कार्यक्रम-अधिकारी डॉ० पूनम-शुक्ला, डॉ० रीमा-सोनकर इत्यादयः अपि विशेषं योगदानं दत्तवन्तः।
हिन्दुस्थान समाचार / ANSHU GUPTA