जायमाने संगीतसमारोहमध्ये सोनूनिगमस्य उपरि अश्मप्रक्षेपः जातः, संगीतसमारोहः मध्ये स्थगितः
भारतीयचलचित्रोद्योगस्य सुप्रसिद्धः गायकः सोनूनिगमः स्वस्य मधुरस्वरेण अत्याधिकप्रसिद्ध - सङ्गीतजगति सुप्रसिद्धा: सन्ति। सः केवलं भारतदेशे न, अपितु विदेशेषु अपि स्वीयेषु सजीव-संगीतसमारोहेषु श्रोतृणां हृदयानि जयति। इदानींतनकाले एका आश्चर्यजनका घटना तस्य
सोनू निगम - फोटो सोर्स ऑनलाइन


भारतीयचलचित्रोद्योगस्य सुप्रसिद्धः गायकः सोनूनिगमः स्वस्य मधुरस्वरेण अत्याधिकप्रसिद्ध - सङ्गीतजगति सुप्रसिद्धा: सन्ति। सः केवलं भारतदेशे न, अपितु विदेशेषु अपि स्वीयेषु सजीव-संगीतसमारोहेषु श्रोतृणां हृदयानि जयति। इदानींतनकाले एका आश्चर्यजनका घटना तस्य जीवनमध्ये अभवत्। यदा सः मंचे प्रस्तुतिं प्रददाति स्म, तदा जनसमूहे स्थितैः केषाञ्चन जनैः अश्मानः प्लास्टिक कुपिक्या: च फेणिताः।

सुप्रसिद्धः गायकः सोनूनिगमः इदानीं दिल्ली-प्रौद्योगिकी-विश्वविद्यालये (डीटीयू) आयोज्यमाने इंगफेस्ट २०२५ नामक-संगीतसमारोहे विशेषप्रस्तुतेः निमित्तं आगतः। अस्मिन् संगीते तस्य भक्तानां महान् जनसङ्घः सन्निहितः आसीत्, किन्तु एका अप्रत्याशिता घटनया वातावरणं विकृतं जातम्। यदा सः मंचे स्वीयानि लोकप्रियाणि गीतानि गायन् श्रोतॄन् हर्षयति स्म, तदा किञ्चन अतीव-उत्साही-छात्राः मंचस्य दिशि अश्मान् प्लास्टिक कूपिक्या: च प्रक्षिप्यन्ति स्म, यस्मात् सोनूनिगमस्य दलस्य केचन सदस्याः आहताः जाताः।

परिस्थितिं नियन्त्रयन् सोनू निगमः श्रोतृभ्यः शान्तिं याचितवान्। सः निवेदनं कृत्वा विनयपूर्वकं अवदत्— अहं यत्र आगतः अस्मि, तत्र भवन्तः सह उत्तमं समयं यापनं कर्तुं इच्छामि। न अहं उक्तवान् यत् भवन्तः संगीतसमारोहस्य आनन्दं न कुर्युः, किन्तु कृपया एतादृशं किञ्चित् मा कुरुत। स्थिति विकृतिं गच्छन्तीं दृष्ट्वा, सुरक्षा-कारणात् संगीतसमारोहः मध्ये स्थगितः।

----------------------

हिन्दुस्थान समाचार / ANSHU GUPTA