नासिके 239 किलोग्राममितं कृत्रिमं प्रनीरम् अधिगृहीतम्
मुंबई, 25 मार्चमासः (हि.स.)।नासिकजनपदस्य सातपुरक्षेत्रे खाद्यऔषधिप्रशासनस्य द्वाराऽन्वेषणं कृत्वा २३९ किलोग्राम् कृत्रिमं पनीरं गृहीतम्। बरामदस्य कृत्रिमप्रनीरस्य मूल्यं ४८,००० रूप्यकाणि इति आकलितम्। एफडीए-दलेन गृहीतम् अस्य कृत्रिमपनीरं विनष्टम् कृत
नासिके 239 किलोग्राममितं कृत्रिमं प्रनीरम् अधिगृहीतम्


मुंबई, 25 मार्चमासः (हि.स.)।नासिकजनपदस्य सातपुरक्षेत्रे खाद्यऔषधिप्रशासनस्य द्वाराऽन्वेषणं कृत्वा २३९ किलोग्राम् कृत्रिमं पनीरं गृहीतम्।

बरामदस्य कृत्रिमप्रनीरस्य मूल्यं ४८,००० रूप्यकाणि इति आकलितम्। एफडीए-दलेन गृहीतम् अस्य कृत्रिमपनीरं विनष्टम् कृतम्। खाद्यएवंऔषधि-प्रशासनस्य अधिकारिणां अनुसारं मङ्गलवासरे मीडिया-सम्मुखे विज्ञापितं यत् नासिकस्य सातपुरक्षेत्रे स्थितायां साई एण्टरप्राइजेस् कारखानायां कृत्रिमपनीरनिर्माणं प्रचलति इति गोपनीयवार्ता प्राप्ता।

एतेन आधारके सोमवासरे खाद्य एवं औषधि प्रशासनदलेन कृत्रिमपनीरनिर्माणाय निर्माणशालायां छापा कृत्वा २३९ किलोग्रामं कृत्रिमं प्रनीरं गृहीतम्। तेन उक्तं यत् गृहीतम् पनीरं पूर्णतया विनष्टं कृतम्। खाद्य एवं औषधि प्रशासनस्य अधिकारिणः नागरिकान् प्रति पनीरसेवनसमये सावधानतां पालनीयाम् इति निवेदनं कृतवन्तः।

---------------

हिन्दुस्थान समाचार / ANSHU GUPTA