धारचूला नगरे ११ पेटिकाः अंग्रेजीमद्यस्य सहितः एकः तस्करः गृहीतः।
देहरादून, 26 मार्चमासः (हि.स.)। सीमांतजनपदे पिथौरागढस्य धारचूलायां पुलिस ११ पेटिकाः अंग्रेजीमद्येन सह तस्करं गृहीतवती। पुलिसअधीक्षिका रेखायादवस्य निर्देशेण मद्यं, चरस, स्मैक तस्करीं प्रति कठोरं अभियानं प्रचाल्यते। अस्यां श्रृंखलायां धारचुलायाः पुलिसउ
धारचूला नगरे ११ पेटिकाः अंग्रेजीमद्यस्य सहितः एकः तस्करः गृहीतः।


देहरादून, 26 मार्चमासः (हि.स.)। सीमांतजनपदे पिथौरागढस्य धारचूलायां पुलिस ११ पेटिकाः अंग्रेजीमद्येन सह तस्करं गृहीतवती। पुलिसअधीक्षिका रेखायादवस्य निर्देशेण मद्यं, चरस, स्मैक तस्करीं प्रति कठोरं अभियानं प्रचाल्यते। अस्यां श्रृंखलायां धारचुलायाः पुलिसउपाधीक्षकः संजयपाण्डेयस्य पर्यवेक्षणे, कोतवालीधारचूलायाः एसएचओ विजेन्द्रशाहस्य नेतृत्वे, अपरउपनिरीक्षकः विशनसिंह, कांस्टेबलः भावेशतिवारी, होमगार्डः देवेन्द्रसिंह, होमगार्डः संजयसिंह इत्येते आर्मी तिराहा धारचूला समीपे परिशीलनकाले वाहनं स्थगयित्वा परीक्षां कृतवन्तः। वाहनतः ३ पेटिकाः अंग्रेजीमद्यस्य, ८ पेटिकाः बियरस्य च उद्भूताः। अभियुक्तः शिवासिंहः ततवालः, अमरसिंहः ततवालस्य पुत्रः, सिर्खापांगलानिवासी, वर्तमानं मल्लीबाजारधारचूलानिवासी, गृहीतः। तस्करीषु लिप्तं क्रेटाकारयानम् अपि निषेधितम् ।

हिन्दुस्थान समाचार / ANSHU GUPTA