छत्तीसगढ़ः वस्त्र-उद्योगस्य केन्द्रत्वं प्राप्नुयात्, पुनीत-क्रिएशन-नामकस्य संस्थायाः महत् निवेश-प्रस्तावः, यस्मिन् सहस्रादधिकानां जनानां कृते रोजगारः लभ्यते।
रायपुरे बेंगलुरु च 26 मार्चमासः (हि.स.)। छत्तीसगढ़राज्ये वस्त्र-उद्योगस्य विकासाय प्रमुखः उद्योगपति: मनोज अग्रवाल:, य: पुनीत क्रिएशन्स इत्यस्य प्रमुख: अस्ति, तेन राज्ये निवेशस्य प्रस्ताव: कृत:। स: बुधवासरे मुख्यमन्त्रिणा विष्णुदेवसायेन सह मिलित्वा छत
मुख्यमंत्री विष्णुदेव साय  उद्योगपति मनोज अग्रवाल ने मुलाकात कर चर्चा करते


रायपुरे बेंगलुरु च 26 मार्चमासः (हि.स.)। छत्तीसगढ़राज्ये वस्त्र-उद्योगस्य विकासाय प्रमुखः उद्योगपति: मनोज अग्रवाल:, य: पुनीत क्रिएशन्स इत्यस्य प्रमुख: अस्ति, तेन राज्ये निवेशस्य प्रस्ताव: कृत:। स: बुधवासरे मुख्यमन्त्रिणा विष्णुदेवसायेन सह मिलित्वा छत्तीसगढ़ं वस्त्र-केन्द्ररूपेण विकसितुं संभावनासु चर्चा अकरोत्।

मनोजः अग्रवालः अवदत् यत् छत्तीसगढ़राज्ये श्रमशक्तेः अनुकूलं औद्योगिकं वातावरणं च अस्ति, यत् वस्त्रउद्योगस्य विशालाः संभावनाः दर्शयति। राज्यस्य औद्योगिकनीतिषु निर्दिष्टं यत् यदि कश्चन उद्योगः सहस्रात् अधिकान् जनान् रोजगारं ददाति, तर्हि सरकारः अतिरिक्तं सब्सिडीं प्रदास्यति। अस्याः पहलायाः फलतः रोजगारस्य अवसराः वर्धिष्यन्ते, राज्यस्य युवानः स्वराज्ये एव उत्तमान् कार्यसंधानान् प्राप्स्यन्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA