Enter your Email Address to subscribe to our newsletters
पूर्वीचंपारणजनपदे जिलाधिकारीसौरभजोरवालमहाभागस्य अध्यक्षतायां बुधवासरे समाहरणालये डॉ. राजेन्द्रप्रसादसभागृहे उद्योगविभागस्य विविधानां योजनानां समीक्षासभा आयोजिताभवत्। तत्र पीएमईजीपी, पीएमएफएमई, प्रधानमंत्रीविश्वकर्मायोजना इत्यादीनां योजनानां प्रगतिरीक्षा कृता। तस्मिन्नेव काले ऋणवितरणशिविरस्यापि आयोजनं सम्पन्नम्।
समीक्षायां जिला उद्योग केंद्रस्य महाप्रबंधक महोदयेन निवेदितं यत् पीएमईजीपी योजनायां वित्तीयवर्षे 278 लक्ष्यानुसारं 1244 आवेदनानि विविधबैंक्षु प्रेषितानि, यत्र 279 आवेदनानि स्वीकृतानि च 164 आवेदकानां ऋणवितरणं सम्पन्नम्। तथैव पीएमएफएमई योजनायां 440 लक्ष्यानुसारं 1137 आवेदनानि प्रेषितानि, यत्र 357 स्वीकृतानि च 198 आवेदकानां ऋणप्रदानं जातम्। प्रधानमंत्रीविश्वकर्मायोजना अन्तर्गतं 2024-25 वित्तीयवर्षे 11772 आवेदनानि जिलास्तरीयसमित्या अग्रसारितानि।
बैठकायां जिलाधिकारी महोदयेन सर्वेषां बैंकप्रतिनिधीनां निर्देशः दत्तः यत् सर्वासु योजनासु निर्दिष्टलक्ष्यानुसारं शतप्रतिशतं उपलब्धिं सुनिश्चितं कुर्वन्तु
।
हिन्दुस्थान समाचार / ANSHU GUPTA