पल्वलनगरस्य श्रीविश्वकर्मा-कौशल-विश्वविद्यालयस्य पञ्चदश छात्रेभ्यः प्रतिष्ठितानां संस्थानां कार्यप्रस्तावाः प्राप्ताः।
बी-वॉक् रोबोटिक्स् एण्ड् ऑटोमेशन् इत्यस्य अष्ट छात्राः तथा डी-वॉक् इंडस्ट्रियल् इलेक्ट्रॉनिक्स् इत्यस्य सप्त छात्राः डिग्रीप्राप्तेः पूर्वमेव कार्यप्रस्तवान् लब्धवन्तः। टीआर् सॉल्यूशन्स्, निर्माण-लैब्, टेट्रा-हेड्रोन् इत्येते रोबोटिक्स् विभागस्य छात्
विश्वकर्मा कौशल विश्वविद्यालय में प्लेसमेंट ड्राइव के दौरान चयनित विद्यार्थी।


बी-वॉक् रोबोटिक्स् एण्ड् ऑटोमेशन् इत्यस्य अष्ट छात्राः तथा डी-वॉक् इंडस्ट्रियल् इलेक्ट्रॉनिक्स् इत्यस्य सप्त छात्राः डिग्रीप्राप्तेः पूर्वमेव कार्यप्रस्तवान् लब्धवन्तः। टीआर् सॉल्यूशन्स्, निर्माण-लैब्, टेट्रा-हेड्रोन् इत्येते रोबोटिक्स् विभागस्य छात्रान् दीपांशु, सागर, सुमित्, विनोद्, रोहित्, आकाश्, वृन्दा, भूमिकां च चयनितवन्तः। के-नेस् टेक्नोलॉजी इत्ययं संस्थानः इंडस्ट्रियल् इलेक्ट्रॉनिक्स् विभागस्य छात्रान् प्रयाग्, अमित्, प्रवेश्, आनन्द्, सोनू, बृजभूषण्, मनीषं च कार्यप्रस्तवान् दत्तवान्। विशेषतः डी-वॉक् इंडस्ट्रियल् इलेक्ट्रॉनिक्स् विभागेन शत-प्रतिशतं प्लेस्मेण्ट् प्राप्तम्। कुलपति प्रो. सुशील कुमार तोमर, कुलसचिवः प्रो. ज्योति राणा च सर्वान् चयनित-विद्यार्थिनः अभिनन्दयन्ति स्म। डीन् कॉर्पोरेट् रिलेशन्स् प्रो. आशीष् श्रीवास्तवः अस्य सफलतायाः श्रेयः विश्वविद्यालयस्य शैक्षणिक-गुणवत्तायै दत्तवान्। डिप्टी ट्रेनिंग् एण्ड् प्लेस्मेण्ट् ऑफिसर डॉ. विकास् भदौरियायाः अनुसारं उद्योग-जगति कुशल-युवानां मांग् वर्धमानः अस्ति। श्रीविश्वकर्मा-कौशल-विश्वविद्यालयस्य विद्यार्थिनां भविष्यं उज्ज्वलम् अस्ति। विभागाध्यक्षः प्रो. कुलवन्त् सिंहः विद्यार्थिनः निष्ठापूर्वकं कार्यं कर्तुं प्रेरितवान्।

हिन्दुस्थान समाचार / ANSHU GUPTA