मध्यप्रदेशः - अद्य भोपाले मुख्यमन्त्री अन्तारार्ष्ट्रियसहकारितावर्षस्य राज्यस्तरीयसम्मेलनस्य शुभारम्भं करिष्यति
भोपालम्, 26 मार्चमासः (हि.स.)। अन्तर्राष्ट्रीयसहकारवर्षस्य राज्यस्तरीयसम्मेलनस्य आयोजनं अद्य (बुधवासरे) भोपालनगरे एपेक्स वित्तकोषपरिसरस्थे समन्वयभवने क्रियते। मुख्यमन्त्री डॉ. मोहन यादवः प्रातः १० वादने अस्य सम्मेलनस्य उद्घाटनं करिष्यन्ति। सम्मेलनस्य
सीएम मोहन यादव (फोइल फोटो)


भोपालम्, 26 मार्चमासः (हि.स.)। अन्तर्राष्ट्रीयसहकारवर्षस्य राज्यस्तरीयसम्मेलनस्य आयोजनं अद्य (बुधवासरे) भोपालनगरे एपेक्स वित्तकोषपरिसरस्थे समन्वयभवने क्रियते। मुख्यमन्त्री डॉ. मोहन यादवः प्रातः १० वादने अस्य सम्मेलनस्य उद्घाटनं करिष्यन्ति। सम्मेलनस्य अध्यक्षता सहकारीमन्त्री विश्वास कैलाश सारङ्गः करिष्यन्ति।

एपेक्स वित्तकोषस्य प्रबन्धनिदेशकः मनोजकुमारगुप्ता अकथयत् यत् सम्मेलने एपेक्स वित्तकोषस्य अपरसचिवः सहकारी एवं प्रशासकः, अपरप्रधानसचिवः अशोकबरनवालः, प्रमुखसचिवः पशुपालनम् एवं डेयरी-उमाकांतउमरावः, प्रमुखसचिवः मत्स्यपालन डी.पी. आहुजः उपस्थितः भविष्यति। राज्यसहकारीविपणनसंघस्य प्रबंधनिदेशकः आलोककुमारसिंहः, सहकारी-आयुक्त एवं रजिस्ट्रार सहकारी संस्था मनोजपुष्पः एवं नाबार्ड क्षेत्रीयकार्यालयस्य मुख्यमहाप्रबंधकः भोपालम् सी. सरस्वती उपस्थितः भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA