दिल्ली उच्चन्यायालयस्य न्यायाधीशस्य यशवन्तवर्मणः प्रशासनिकदायित्वानि अपि प्रत्यानीतानि।
नवदिल्ली, २८ मार्चमासः (हि.स.)। निजगृहे नगदस्य प्राप्तेः अनन्तरं विवादेषु प्राप्तस्य दिल्ली उच्चन्यायालयस्य न्यायाधीशस्य यशवन्तवर्मणः प्रशासनिकदायित्वानि अपि प्रत्यानीतानि। पूर्वं उच्चन्यायालयेन न्यायमूर्तेः वर्मणः न्यायिकदायित्वानि प्रत्यानीतानि। न
जस्टिस यशवंत वर्मा (फाइल फोटो)


नवदिल्ली, २८ मार्चमासः (हि.स.)। निजगृहे नगदस्य प्राप्तेः अनन्तरं विवादेषु प्राप्तस्य दिल्ली उच्चन्यायालयस्य न्यायाधीशस्य यशवन्तवर्मणः प्रशासनिकदायित्वानि अपि प्रत्यानीतानि। पूर्वं उच्चन्यायालयेन न्यायमूर्तेः वर्मणः न्यायिकदायित्वानि प्रत्यानीतानि।

न्यायमूर्तिः यशवन्तवर्मा उच्चन्यायालयस्य प्रशासनिकसमितिषु सदस्यः आसीत्। उच्चन्यायालयेन नवेन पुनः प्रशासनिकसमितीनां गठनं कृतम्, यस्मिन् न्यायमूर्तिः वर्मा न अस्ति। पूर्वं सः चतुर्दश समितीनां सदस्यः आसीत्।

न्यायमूर्तेः वर्मणः गृहे महत्या मात्रया नगदस्य प्राप्तेः अनन्तरं सम्पूर्णन्यायपालिका तथा च राजनीतिकमण्डलेषु महान् आघातः अभवत्। सर्वोच्चन्यायालयेन २२ मार्च दिने अस्य प्रकरणस्य परीक्षणाय त्रिसदस्यीयसमितेः गठनस्य आदेशः दत्तः। एषा समिति पंजाब-हरियाणायाः उच्चन्यायालयस्य मुख्यन्यायाधीशः शीलनागू, हिमाचलप्रदेशस्य उच्चन्यायालयस्य मुख्यन्यायाधीशः जी.एस. संधावालिया, कर्नाटकराज्यस्य उच्चन्यायालयस्य न्यायमूर्तिः अनुशिवरामन् च सम्मिलिताः। समिति स्वपरीक्षणं आरब्धवती।

सर्वोच्चन्यायालयस्य महाधिवेशनसमितिना (कॉलेजियम) न्यायमूर्तेः वर्मणः दिल्ली उच्चन्यायालयात् इलाहाबाद उच्चन्यायालयं प्रति स्थानान्तरणं अनुशंसितम्। एषा अनुशंसा प्रति २७ मार्च दिने राष्ट्रस्य कतिपय उच्चन्यायालयस्य बार्-संघस्य प्रतिनिधिभिः सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं तथा च कॉलेजियमस्य न्यायाधीशान् सम्प्राप्य एतस्य निर्णयस्य प्रत्याहरणाय निवेदनं कृतम्।

हिन्दुस्थान समाचार / ANSHU GUPTA