उत्तराखण्डस्य नूतनमुख्यसचिवः आनंदवर्धनः नियुक्तः।
देहरादून, २८ मार्चमासः (हि.स.)। उत्तराखण्डस्य सरकारः 1992-बैचस्य IAS अधिकारीं आनंदवर्धनं, यः सम्प्रति अपरमुख्यसचिवपदं धारयति, राज्यस्य नूतनमुख्यसचिवरूपेण नियुक्तवती। अस्मिन् सम्बन्धे शासनस्य आदेशः प्रकाशितः। आदेशे उल्लिखितं यत् आनंदवर्धनः १ अप्रैल २०
आनंद बर्द्धन व मुख्यमंत्री धामी फाइल फोटो।


देहरादून, २८ मार्चमासः (हि.स.)। उत्तराखण्डस्य सरकारः 1992-बैचस्य IAS अधिकारीं आनंदवर्धनं, यः सम्प्रति अपरमुख्यसचिवपदं धारयति, राज्यस्य नूतनमुख्यसचिवरूपेण नियुक्तवती। अस्मिन् सम्बन्धे शासनस्य आदेशः प्रकाशितः। आदेशे उल्लिखितं यत् आनंदवर्धनः १ अप्रैल २०२५ तः उत्तराखण्डस्य मुख्यसचिवपदं ग्रहिष्यति। सम्प्रति मुख्यसचिवपदस्थस्य राधा रतूड़ीमहाभागायाः सेवा-विस्तारणं ३१ मार्चतमे दिनाङ्के समाप्तं भविष्यति। आनंदवर्धनः 1992-बैचस्य IAS अधिकारी अस्ति। उत्तराखण्डस्य प्रशासनिकव्यवस्थायाम् सः सम्प्रति वरिष्ठतमः IAS अधिकारी अस्ति, मुख्यसचिवपदाय च दीर्घकालात् चर्चायाम् आसीत्।

हिन्दुस्थान समाचार / ANSHU GUPTA