अग्रिमवर्षस्य वैलेंटाइन-दिवसे ‘तू मेरी मैं तेरा, मैं तेरा तू मेरी’ इति चलचित्रस्य विमोचनं भविष्यति।
एतेषु दिवसेषु चलचित्र-अभिनेता कार्तिक आर्यन: चर्चायां वर्तते। अस्य कारणं तस्य समीपे आगच्छन्ति उत्कृष्टानि चलचित्रानि। 'भूल भुलैया 3' इत्यस्य सफलतायाः अनन्तरं कार्तिकः अनेकेसु प्रतिक्षितेसु चलचित्रेषु दृश्यः भविष्यति। तासु एव एकमस्ति 'तू मेरी मैं त
कार्तिक आर्यन


एतेषु दिवसेषु चलचित्र-अभिनेता कार्तिक आर्यन: चर्चायां वर्तते। अस्य कारणं तस्य समीपे आगच्छन्ति उत्कृष्टानि चलचित्रानि। 'भूल भुलैया 3' इत्यस्य सफलतायाः अनन्तरं कार्तिकः अनेकेसु प्रतिक्षितेसु चलचित्रेषु दृश्यः भविष्यति। तासु एव एकमस्ति 'तू मेरी मैं तेरा, मैं तेरा तू मेरी'। इदानीं अस्य चलचित्रस्य विमोचन-तिथिः निश्चितः अभवत्, येन तस्य प्रशंसकानां उत्सुकता वर्धिता। चलचित्रस्य वैलेंटाइन-दिवसस्य विशेष-सन्दर्भे, अग्रिमे वर्षे विमोचनं भविष्यति। अर्थात्, एषः चलचित्रः १३ फरवरी, २०२६ तमे दिने चलचित्रगृहेषु प्रविश्यति। अस्य चलचित्रस्य निर्देशनं समीर विद्वानः करोति, यः पूर्वं 'सत्यप्रेम की कथा' इत्यस्मिन चलचित्रे कार्तिकआर्यनेन सह कार्यं कृतवान्। अस्य निर्माता करणजौहरः अस्ति। एतत् चलचित्रं धर्मा प्रोडक्शन इत्यस्य अधः निर्मीयते। कार्तिकआर्यनस्य सहचर्यं चलचित्रे शरवरी वाघ वा अनन्या पांडे इत्यत्र एकया भवितुम् अर्हति। किन्तु, तस्य अभिनेत्री-चयनस्य विषये अद्यापि कोऽपि अधिकृतः निर्णयः न घोषितः। दर्शकाः उत्सुकतया प्रतीक्षां कुर्वन्ति यत् एषः रोमाण्टिक-चलचित्रः कार्तिकेन सह केन सह दृश्यं भविष्यति।

हिन्दुस्थान समाचार / ANSHU GUPTA