Enter your Email Address to subscribe to our newsletters
राँची, २९ मार्चमासः (हि.स.)। चुटियायां स्थिते प्राचीनश्रीराममन्दिरे ३० मार्चतः ०७ अप्रैलपर्यन्तं चैतीदुर्गापूजा सह शतचण्डीमहायज्ञस्य आयोजनं भविष्यति।
आयोजनसमितेः संयोजकः विजयकुमारसाहू इत्यस्य कथनं यत् मन्दिरे मातुः दुर्गायाः प्रतिमा संस्थिता अस्ति। अत्र भव्यः पण्डालः निर्मीयते। ३० मार्चतः ६ अप्रैलपर्यन्तं नवदुर्गायाः पूजा आचार्यशशिभूषणेन दीपकपाण्डेयेन च सम्पाद्यते। पञ्चभिः विद्वद्भिः पण्डितैः सप्तशतीपाठः १०१वारं नवदिनानि पर्यन्तं क्रियते। अस्मिन् मुख्यः ३१ यजमानाः स्वपत्नीसहिताः पूजायां भागं ग्रहीष्यन्ति। ६ अप्रैलदिने मातुः दुर्गायाः विधिवत्पूजायाः परं हवनं भविष्यति। मध्यान्हे १२ वादने श्रीरामजन्मोत्सवः सम्पाद्यते।
अतः परं भण्डारस्य आयोजनं भविष्यति। अपराह्ने ३ वादने श्रीरामनवम्याः भव्यशोभायात्रा गाजे-बाजे सहितं नीर्यस्यते। चुटियायाः आरभ्य शोभायात्रा अल्बर्टएक्काचौकं प्राप्य ततः तपोवनमन्दिरं गमिष्यति। विशेषतः १९९३ तः आरभ्य अत्र पण्डालं निर्माय चैतीदुर्गापूजा सह शतचण्डीमहायज्ञस्य आयोजनं क्रियते।
हिन्दुस्थान समाचार / ANSHU GUPTA