हेमन्तसरकारस्य वित्तीयदुरप्रबन्धनस्य कारणात् 20 सहस्रकोटि रुप्यकाणि समर्पयितव्यानि जातानि : बाबूलालः।
राँची, 29 मार्चमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी हेमन्तसरकारं प्रति तीव्रं प्रहारं कृतवान्। श्रीमराण्डिः अवदत् यत् हेमन्तसरकारस्य वित्तीयदुरप्रबन्धनस्य कारणात् 20 सहस्रकोटि रुप्यकाणि विकासयोजनासु निवेश
फाइल फोटो बाबूलाल मरांडी


राँची, 29 मार्चमासः (हि.स.)। भारतीयजनतापक्षस्य (भाजपा) प्रदेशाध्यक्षः विपक्षनेता च बाबूलालमराण्डी हेमन्तसरकारं प्रति तीव्रं प्रहारं कृतवान्। श्रीमराण्डिः अवदत् यत् हेमन्तसरकारस्य वित्तीयदुरप्रबन्धनस्य कारणात् 20 सहस्रकोटि रुप्यकाणि विकासयोजनासु निवेशं विना समर्पणं कर्तुं बाध्यम् अभवत्, यत् अतीव लज्जाजनकं वस्तु। यदि बजटगतधनराशेः सम्यक् उपयोगः कृतः अभविष्यत्, तर्हि राज्ये अपूर्णाः मार्गपरियोजनाः समाप्ताः अभविष्यन्, शिक्षा-स्वास्थ्यसेवायाः सुधारः कर्तुं शक्यः अभविष्यत्, युवानां कृते नवीनानि रोजगारसृजनानि अपि सम्भवितानि।

मराण्डिः शनिवासरे सोशलमीडियायां (X) लिखितवान् यत् अद्य एव पत्रेषु महदाकाराणां विज्ञापनानि प्रदाय मुख्यमंत्री हेमन्तसोरेणः बजटस्य प्रशंसा कृत्वा जनानां नेत्रेषु धूलिं क्षिप्तुं प्रयासं कृतवान्। किन्तु तस्मिन्नेव पत्रस्य पृष्ठेषु बजटस्य 20 सहस्रकोटि रुप्यकाणां समर्पणस्य सूचना प्रदत्ता अस्ति, या स्पष्टं दर्शयति यत् सरकारस्य प्राथमिकता न विकासः, न रोजगारः, केवलं भ्रष्टाचारः एव।

तेन उक्तं यत् राज्यसरकारस्य योजनासु दूरदृष्टेः अभावः, प्रभावशालीकार्यान्वयनस्य च कमी अस्ति, यस्य परिणामस्वरूपं एतादृशी विशालबजटधनराशिः समर्पिता। एषः वित्तीयदुरप्रबन्धनं राज्यस्य विकासस्य कृते अत्यन्तं निराशाजनकं च अस्ति।

हिन्दुस्थान समाचार / ANSHU GUPTA