Enter your Email Address to subscribe to our newsletters
झांसी, २९ मार्चमासः (हि.स.)। राज्यपालः आनन्दीबेनपटेलस्य शनिवासरे झांस्याः अकस्मात् आगमनस्य सूचना लब्धा इति ज्ञात्वा जिला पुलिस प्रशासनं च समाकुलम् अभवत्। अधिकारीगणः शीघ्रं व्यवस्थासु संलग्नाः अभवन् सूचनाविभागेन राज्यपालस्य झांस्याः आगमनस्य प्रोटोकॉलः प्रकाशितः। सूचनायाम् उक्तं यत् राज्यपालः आनन्दीबेनपटेलः अद्य मध्यप्रदेशस्य शिवपुरीस्थ टूरिज्म विलेज कार्यक्रमे भागं ग्रहीष्यति तथा च रात्रिविश्रान्तिं करिष्यति। अस्मिन कार्यक्रमे गमनाय राज्यपालस्य काफिलः उत्तरप्रदेशस्य लखनऊमुख्यालयात् शिवपुरीं प्रति अद्य प्रातः अष्टवादने निर्गतः दूरतः अधिकत्वात् अकस्मात् राज्यपालस्य झांस्याः बुन्देलखण्ड विश्वविद्यालयस्य अतिथिगृहे विश्रान्तेः कार्यक्रमः निश्चितः अभवत्। राज्यपालस्य आगमनसूचनया प्रशासनिकः तथा पुलिस अधिकारीगणः व्यवस्थायाः दृढीकरणे त्वरया प्रवृत्ताः। राज्यपालः मध्याह्ने झांस्यां आगमिष्यति तथा किञ्चित् विश्रान्तिं कृत्वा शिवपुरीं गमिष्यति।
हिन्दुस्थान समाचार / ANSHU GUPTA