वैदिक-मन्त्रैः सह भारतीय-नववर्षस्य स्वागतं कृतम् : राष्ट्रीयस्वयंसेवासंघपथ-सञ्चलनम्।
जोधपुरम् , ३० मार्चमासः (हि.स.)। नववर्षमहोत्सवसमितेः आयोजनस्य अंतर्गतं नगरे हिन्दूनववर्षं संवत् २०८२ उल्लासेन आचरितम्। नववर्षस्य प्रारम्भे प्रभाते एव नगरस्य मुख्य-चत्वारेषु, उद्यानेषु, सार्वजनिक-स्थलेषु च जनानाम् अभिनन्दनं कृत्वा तेषां ललाटे तिलकं कृ
jodhpur


जोधपुरम् , ३० मार्चमासः (हि.स.)। नववर्षमहोत्सवसमितेः आयोजनस्य अंतर्गतं नगरे हिन्दूनववर्षं संवत् २०८२ उल्लासेन आचरितम्। नववर्षस्य प्रारम्भे प्रभाते एव नगरस्य मुख्य-चत्वारेषु, उद्यानेषु, सार्वजनिक-स्थलेषु च जनानाम् अभिनन्दनं कृत्वा तेषां ललाटे तिलकं कृतं, नववर्षस्य शुभकामनाः च प्रदत्ताः। समग्रे दिने विविधाः सांस्कृतिक-धार्मिकाः कार्यक्रमाः अपि आयोजिता आसन्। नगरस्य अधिकांश-स्थलेषु वैदिक-मन्त्राणां घोषः श्रूयमानः आसीत्।

नववर्षमहोत्सवसमितेः अध्यक्षस्य वचनं

समितेः अध्यक्षः अशोकचौहानः अवदत् यत् नवरात्र-नववर्षयोः प्रारम्भे अस्माभिः विभिन्न-स्थानेषु तिलकं कृत्वा जनानां अभिनन्दनं कृतं तथा दीपप्रज्ज्वलनं अपि सम्पादितम्। प्रभाते मङ्गलारत्या हिन्दू-नववर्षस्य स्वागतं कृतम्। नगरस्य प्रमुखेषु मन्दिरेषु, गुरुद्वारेषु च आगतानां श्रद्धालूनां शुभाशयान् प्रदत्ताः। नववर्षमहोत्सवसमित्या सह अन्यैः विविध-संस्थाभिः चतुष्पथेषु, मन्दिरेषु, सार्वजनिक-उद्यानेषु आगतानां तिलकं कृत्वा मिष्टान्नं दत्तं तथा हवन-यज्ञः, प्रभात-फेरी, दीपोत्सवः च आयोजितः आसन्।

विविधसंस्थाभिः नववर्षस्य स्वागतं कृतम्

संवत् २०८२ युगाब्द ५१२७ इत्यस्य हिन्दू-नववर्षस्य स्वागतं योगाभ्यासेन, प्रभात-फेरी, सूर्य-अर्घ्य-दानेन च कृतम्। संस्कार-भारत्या हनुमन्त-आदर्श-विद्या-मन्दिरे प्रभातकालीन-भजनानि गायन्ति सूर्याय अर्घ्यं दत्तम्। आनन्द-सिनेमा-स्थिते गुरुद्वारे श्री-गुरुसिंह-सभायां विश्व-कल्याणाय प्रार्थना कृता।

आर्य-समाजेन राष्ट्र-समृद्धयाः यज्ञः कृतः

आर्य-समाज-दुर्ग आर्य-वीर-दल-महावीर-शाखायाः आयोजनेन भारतीय-नववर्षे यज्ञः सम्पादितः। आर्य-समाज-दुर्गस्य मंत्री उम्मेदसिंहः आर्यः अवदत् यत् अद्य वैदिक-नववर्षस्य शुभारम्भः अस्ति तथा महर्षिः दयानन्द-सर्वस्वती महोदयेन आर्य-समाजस्य स्थापना कृता। अद्यैव मर्यादा-पुरुषोत्तमः श्रीरामचन्द्र-महाराजस्य राज्याभिषेकः अपि सम्पूर्णः अभवत्। यज्ञे आहुतयः समर्पयित्वा राष्ट्रस्य समृद्धये प्रार्थना कृता।

राष्ट्रीय-स्वयंसेवक-संघस्य पथ-सञ्चलनम्

नवसंवत्सरस्य उपलक्षे जोधपुर-महानगरे राष्ट्रीय-स्वयंसेवक-संघस्य स्वयंसेवकैः अष्टादश-नगराणां मध्ये वर्ष-प्रतिपदा-उत्सवः समायोजितः। पूर्ण-गणवेश-धारिणः स्वयंसेवकाः शारीरिक-प्रधान-कार्यक्रमान् योगासने, दण्ड-व्यायामं च कृतवन्तः। पंचसु-नगरसु – पुरातन-नगर, शंकर-नगर, सूरसागर, रातानाडा, मण्डोरे च पथ-सञ्चलनं कृतम्। अस्मिन अवसरः संघस्य संस्थापकः डॉ. केशव-बलिराम-हेडगेवार-महोदयस्य जन्मदिवसः अपि उल्लसितः। महानगर-प्रचार-प्रमुखः विशाल-महोदयः अवदत् यत् सम्पूर्णेषु अष्टादश-नगरेषु प्रान्तीय, विभागीय, महानगर-स्तरीय-बौद्धिक-कर्तारः मार्गदर्शनं प्रदत्तवन्तः।

हिन्दुस्थान समाचार