Enter your Email Address to subscribe to our newsletters
जोरहाट (असम), ३० मार्चमासः (हि.स.)। जोरहाट जनपदस्य तिताबर-मेलेमाटी-पटियाग्रामे १ अप्रीलतः ८ अप्रीलपर्यन्तं निरन्तरं भागवतपाठस्य व्यापकाः तयारीः प्रवर्तमानाः। वैष्णवभक्तानां स्वागताय पटियाग्रामस्य महिलाः, पुरुषाः, वृद्धाः, युवानः च सम्पूर्णमनसा आयोजनं सफलं कर्तुं संलग्नाः सन्ति। भक्तसेवायै महिलाः अष्टसहस्रं मिठाइः सज्जीकुर्वन्ति।
विदितं भवतु यत् १ अप्रीलतः ८ अप्रीलपर्यन्तं अखण्डभागवतपाठस्य आयोजनं भविष्यति। वर्तमानकाले पटियाग्रामस्य बरनामगृहे सर्वत्र उत्साहपूर्णं वातावरणं व्याप्तम्। एषः निरन्तरः भागवतपाठः न केवलं पटियाग्रामस्य समीपस्थग्रामाणां जनानां अपितु सम्पूर्णस्य विश्वस्य शान्तये समर्पितः अस्ति।
सप्तदिनानि सप्तरात्रयः च निरन्तरं प्रवर्तमानस्य अस्य भागवतपाठस्य दर्शनाय श्रवण-कीर्तनाय च वैष्णवभक्तान् स्थानियजनाः आमन्त्रितवन्तः।
हिन्दुस्थान समाचार / ANSHU GUPTA