Enter your Email Address to subscribe to our newsletters
उत्तरकाशी,30 मार्चमासः (हि.स.)। उत्तराखण्डस्य विश्वप्रसिद्धस्य गङ्गोत्री-यमुनोत्री धामयोः कपाटाः आगामिनि ३० अप्रैल् दिनाङ्के उद्घाट्यन्ते। नवरात्रस्य शुभसन्दर्भे कपाटोन्मीलनस्य मुहूर्तः निश्चितः। अक्षयतृतीयायाः पावने पर्वणि रोहिणीनक्षत्रे प्रातःकाले दशवादनसर्धे श्रद्धालुभ्यः उद्घाट्यते। अनेन चतुर्धामयात्रायाः आरम्भः भविष्यति।
रविवासरे गङ्गोत्री-मन्दिर-समितेः सचिवः सुरेशः सेमवालः अवदत् यत् हिन्दूनववर्षस्य तथा च चैत्रशुक्लप्रतिपदायाः नवरात्रेः प्रथमदिवसे रविवासरे गङ्गोत्रीधामस्य कपाटोन्मीलनस्य मुहूर्तः निश्चितः। सः अपि अवदत् यत् देवीगङ्गायाः उत्सवडोली स्वस्य शीतकालीनप्रवासस्थानात् मुखबाग्रामात् २९ अप्रैल् दिनाङ्के मध्यान्हे द्वादशवादने गङ्गोत्रीधामं प्रति प्रस्थितवती भविष्यति तथा च भैरवघाट्यां स्थिते भैरवमन्दिरे रात्रिविश्रान्तिं करिष्यति। तस्मात् क्रमेण अपरदिवसे ३० अप्रैल् दिनाङ्के प्रभाते नववादने देवीगङ्गायाः डोली गङ्गोत्रीधामं प्राप्स्यति। यत्र विधिपूजा-अर्चना हवनं च कृत्वा सम्यक् १०:३० वादने कपाटाः श्रद्धालुभ्यः उद्घाट्यन्ते।
यमुनोत्रीधामस्य कपाटाः अपि अक्षयतृतीयापर्वणि श्रद्धालुभ्यः उद्घाट्यन्ते। किन्तु, कपाटोन्मीलनस्य मुहूर्तः षट् अप्रील् दिनाङ्के यमुनाजयंतीसमये निश्चितः भविष्यति। अन्यौ द्वौ धामौ—केदारनाथः बद्रीनाथः च—एतेषां कपाटाः क्रमशः द्वितीयमे तथा च चतुर्थे मे मासे उद्घाट्यन्ते।
हिन्दुस्थान समाचार