Enter your Email Address to subscribe to our newsletters
रामगढनगरम्, ३१ मार्चमासः (हि.स.)। रजरप्पायां माता छिन्नमस्तिकाया मन्दिरे नवरात्रस्य द्वितीये दिवसे सोमवासरे माता दुर्गायाः द्वितीयस्वरूपस्य ब्रह्मचारिण्याः पूजनं सम्पन्नम्। सम्यक् विधिपूर्वकम् आचार्यैः माता दुर्गायाः आराधना कृता।
अस्मिन्काले विशेषः चण्डीपाठः आयोजितः यत्र शतशः भक्ताः सम्मिलिताः अभवन्। आचार्यः सुभाशीष-पाण्डा अवदत् यत् नवरात्र-महोत्सवस्य निमित्तं सर्वाः विशेष-पूजाः सञ्चलन्ति। प्रतिदिनं मातुः विशेष-श्रृङ्गारः क्रियते। भक्तानां मध्ये भण्डारस्य अपि आयोजनं सम्पद्यते। मातुः आराधनया भक्तानां मनःकामनाः पूर्यन्ते। एतेन कारणेन एव सिद्धपीठे रजरप्पायां दर्शनार्थं जनाः दूरात् आगच्छन्ति।
प्रातःकाले भक्तानां दीर्घा पङ्क्तिः
मन्दिरे माता छिन्नमस्तिकायाः दर्शनार्थं भक्तानां पङ्क्तिः प्रातःकाले एव आरब्धा। प्रातः ५:०० वादनानन्तरं यदा मन्दिरे दर्शनं प्रारब्धं तदा श्रद्धालवः आगन्तुं आरब्धवन्तः। अतीव दीर्घा पङ्क्तिः स्थितासीत् अतः सुरक्षा-विषये पुलिस् अपि सज्जा आसीत्। मन्दिरात् आरभ्य मार्गपर्यन्तं दीर्घा पङ्क्तिः दृश्यते स्म।
उष्णतायाः कारणात् श्रद्धालूनां किञ्चित् अपि क्लेशः न भवेत् इति हेतोः सम्पूर्णे मार्गे छत्र-व्यवस्था कृता अस्ति।
हिन्दुस्थान समाचार