सुशासननीतिभिः देशः विकसितः भविष्यति – असीमः अरुणः
लखनऊ, 01 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथः च ये सुशासनस्य मन्त्रं स्थापितवन्तौ, सः अद्य एकम् आदर्शरूपं जातम्। सुशासनस्य एषः आदर्शः विकसितभारतस्य आधारशिला अपि अस्ति। एतानि वचनानि समाजकल्याणविभागस्य राज्यमन्त्री (स्वतन्त्रप
छात्र-छात्राओं से वार्ता करते असीम अरुण


लखनऊ, 01 अप्रैलमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी योगी आदित्यनाथः च ये सुशासनस्य मन्त्रं स्थापितवन्तौ, सः अद्य एकम् आदर्शरूपं जातम्। सुशासनस्य एषः आदर्शः विकसितभारतस्य आधारशिला अपि अस्ति। एतानि वचनानि समाजकल्याणविभागस्य राज्यमन्त्री (स्वतन्त्रप्रभार) असीमः अरुणः मङ्गलवासरे गोमतीनगरस्थिते भागीदारीभवने ‘गुड गवर्नेंस यात्रा’ अन्तर्गतं लखनऊनगरम् आगतं देशस्य सर्वत्र छात्र-छात्राभिः सह उक्तवान्।

छात्र-छात्राभिः सह चर्चायां मन्त्री असीमः अरुणः अवदत् यथा उत्तरप्रदेशे सुशासनस्य माध्यमेन भ्रष्टाचारं अपराधं च नियंत्रितं कृतम्। सर्वकारेण आरक्षिबलं संसाधनैः सम्पन्नं कृत्वा सङ्गठित-अपराधस्य अन्तं कृतम्। एतस्य शुभं परिणामं यत् अद्य प्रदेशे लक्षकोटि-मूल्यस्य निवेशः आगच्छति तथा च युवानः रोजगारस्य अवसरान् प्राप्नुवन्ति। पेंशनयोजना वा सामूहिकविवाहः, जनधनवित्तकोषानां माध्यमेन लाभार्थिभ्यः सहायता प्रत्यक्षं तेषां वित्तकोषेषु प्राप्यते, येन पात्रनागरिकानां कृते सर्वकारीसहायता पारदर्शीरूपेण प्रदीयते। अस्मिन् अवसरे लेखकः शांतनुगुप्तः अपि उपस्थितः आसीत्।

हिन्दुस्थान समाचार / ANSHU GUPTA