Enter your Email Address to subscribe to our newsletters
- मुख्यमंत्री योगी आदित्यनाथः पूर्व राज्यपालस्य लालजी टंडनस्य जयंत्यां तं संस्मृतवान्।
लखनऊ, 12 अप्रैलमासः(हि. स.)।मुख्यमंत्री योगी आदित्यनाथः शनिवासरे पूर्वराज्यपालस्य लालजी टण्डन इत्यस्य जयंती अवसरस्य प्रसङ्गे तस्य मूर्तेः समक्षं माल्यार्पणं कृत्वा श्रद्धाञ्जलिं अर्पितवान्। तस्मिन् सन्दर्भे मुख्यमंत्री योगी आदित्यनाथः अवदत् यत् – “पूर्वराज्यपालः लालजी टण्डन भारतमातुः तादृशः सुतः आसीत्, यः लखनऊ नगरे, उत्तरप्रदेशे, च राष्ट्रस्य राजकारणक्षेत्रे सप्ततिः वर्षपर्यन्तं स्वस्य दृढं स्थानं निर्माय स्थितवान्। सः सार्वजनिके जीवने सम-विशमपरिस्थितिषु अपि एकस्य पक्षस्य, एकस्य विचारधारायाः च राष्ट्रवादस्य मूल्यनिष्ठायाः च अनुगमनं कृतवान्।
मुख्यमन्त्रिणा उक्तं यत् — “यदा कश्चन व्यक्तिः स्वीयाः मर्यादाः अनुवर्तते, तदा तस्य शिखरं प्रति गमनं न विलम्बेन भवति।” टण्डनमहाभागस्य लखनऊ नगरे, उत्तरप्रदेशे च राष्ट्रस्य राजकारणक्षेत्रे प्रभावपूर्णं सन्निधित्वं तस्य मूल्येषु आदर्शेषु च प्रतिबिम्बितं दृश्यते । मुख्यमंत्री अवदत् यत् टण्डनमहाभागस्य व्यक्तित्वे नित्यं दृश्यते यत् यः व्यक्तिः स्वीयामर्यादां पालयति, तस्य शिखरस्थं प्राप्तुं विलम्बः न भवति।
लखनऊ नगरे सामान्यकार्यकर्ता-स्वयंसेवक रूपेण आरभ्य लखनऊ नगरपालिकापरिषद् तथा नगरनिगमपार्षद्, ततः विधानपरिषद्-सदस्यः, अनन्तरं विधायकः च सन् उत्तरप्रदेशराज्यस्य मन्त्रिपदे स्वकीयं योगदानं कृतवान्। अनन्तरं सः लखनऊ नगरे लोकप्रियः सांसदः अभवत्। तस्य सार्वजनिकः व्यक्तित्वः, जनमानससहितं संवादशैली, प्रत्येकस्य सुख-दुःखयोः सहभागीभावः च सर्वैः अनुभूतम्।
मुख्यमंत्री उक्तवान् यत् टण्डनमहाभागस्य सेवाः, व्यक्तित्वं च कृतित्वं च अद्यापि प्रेरणास्वरूपे स्थितम् अस्ति। मुख्यमन्त्रिणा तस्य नवतितम्याः जयंती प्रसङ्गे सस्मरणं कृत्वा तस्य स्मृतिषु नमनं कृतम्। अनेन प्रसङ्गेन सह उपमुख्यमंत्री बृजेश पाठकः, मन्त्री असीम अरुणः, महापौरः सुषमा खर्कवालः, सांसदः बृजलालः, विधानपरिषद्सदस्यः मुकेश शर्मा, विधायकाः ओ.पी. श्रीवास्तवः, सुरेश तिवारी, डॉ. नीरज बोरा, भारतीयजनतापक्षस्य प्रदेशप्रवक्ता संजय चौधरी, अमित टण्डन, नीरज सिंह, रजनीश गुप्त इत्यादयः अपि
उपस्थिताः आसन्।
हिन्दुस्थान समाचार