Enter your Email Address to subscribe to our newsletters
लखनऊ,12 अप्रैलमासः(हि.स.)।उपमुख्यमंत्री केशवप्रसाद मौर्य शनिवासरे हज़रतगञ्जप्रदेशे स्थिते दक्षिणमुखे हनुमत्-मन्दिरे समागत्य दर्शनं कृत्वा बजरंगबलिनं प्रति प्रदेशवासिनां सुखसमृद्ध्यर्थं प्रार्थनां कृतवान्। तस्मिन् काले पूजारिणा उपमुख्यमन्त्रिणं तिलकं कृत्वा प्रसादः प्रदत्तः।अनन्तरं केशवप्रसाद मौर्य हज़रतगञ्जे स्थिते बहुपदस्थलीयं वाहननिवेशनस्थले भाजपापक्षीयकार्यकर्तृणां सन्निधौ बिहारराज्यस्य पूर्वराज्यपालस्य स्वर्गीयलालजीटण्डनस्य जयंतीपर्वणि तस्य मूर्तेः समक्षं पुष्पाञ्जलिं समर्प्य श्रद्धया नमनं कृतवान्।
तस्मिन् पुष्पाञ्जलिकाले उपमुख्यमंत्री ब्रजेश पाठक, भारतीयजनतापक्षस्य प्रदेशोपाध्यक्षः सन्तोषसिंहः, विधानपरिषद्सदस्यौ मुकेश शर्मा रामचन्द्रप्रधानौ, विधायकः ओ.पी. श्रीवास्तवः, च महानगराध्यक्षः आनन्दद्विवेदी च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार