उधमपुर-श्रीनगर-बारामूला रेल लिंक परियोजनायाः उद्घाटनात् पूर्वं रियास्यां वर्धिताः सुरक्षोपायाः
जम्मूः, 12 अप्रैलमासः (हि.स.)।उधमपुर-श्रीनगर-बारामुला रेलसम्बन्ध-संयोजनपरियोजनायाः उद्घाटनार्थं १९ अप्रेल प्रधानमन्त्रिणो नरेन्द्रमोदिनः आगमनस्य पूर्वं जम्मू-कश्मीरराज्यस्य रियासी-जनपदे सुरक्षा-उपायाः सुदृढीकृताः सन्ति। रेलमण्डले सूचना-प्रसारणकार्
उधमपुर-श्रीनगर-बारामूला रेल लिंक परियोजना के उद्घाटन से पहले रियासी में बढ़ाए गए सुरक्षा उपाय


जम्मूः, 12 अप्रैलमासः (हि.स.)।उधमपुर-श्रीनगर-बारामुला रेलसम्बन्ध-संयोजनपरियोजनायाः उद्घाटनार्थं १९ अप्रेल प्रधानमन्त्रिणो नरेन्द्रमोदिनः आगमनस्य पूर्वं जम्मू-कश्मीरराज्यस्य रियासी-जनपदे सुरक्षा-उपायाः सुदृढीकृताः सन्ति।

रेलमण्डले सूचना-प्रसारणकार्ये कार्यनिरतस्य कार्यपालननिदेशकस्य (ईडी/आईपी) दिलीपकुमारस्य वचनानुसारं, एकशतैः नवदशतिः (११९) किलोमीटर-दीर्घया सुरङ्गया सहितं द्विशत् सप्तत्रिंशत् (२७२) किलोमीटर-पर्यन्तं अयं खण्डः प्रदेशस्य आवगमन-संयोजनाय एकः अत्यन्तं महत्वपूर्णः विकासः अस्ति। तेन उक्तं यत् — “काश्मीरे पर्यन्तं रेलयानस्य संचालनं प्रत्‍येकस्य भारतीयस्य स्वप्नं आसीत्। अस्मिन्सम्बन्धे दीर्घकालीनं परिश्रमं कृतम्, इदानीं अयं यूएसबीआरएल-नामकः खण्डः उद्घाटनाय सिद्धः अस्ति।”

अस्मिन खण्डे एकशतं नवदशतिः किलोमीटरपर्यन्तं सुरङ्गा अस्ति, इत्यपि तेन उक्तम्। अयं सम्पूर्णः प्रदेशः काश्मीरस्थः धार्मिक-पर्यटन-च आवगमनसुविधा-सन्दर्भे विशेषं महत्वं वहति।

तेन एव निवेदितं यत् प्रधानमन्त्री नरेन्द्रमोदी १९ अप्रील् दिनाङ्के यूएसबीआरएल-परियोजनायाः उद्घाटनं करिष्यति। कुमार-महोदयेन उक्तं यत् — “प्रधानमन्त्री सम्पूर्णां परियोजनां राष्ट्राय समर्पयिष्यन्ति, अस्य फलरूपेण राष्ट्रस्य जनाः महान् लाभं प्राप्स्यन्ति। यथायोजनां तदा १९ अप्रील् दिनाङ्के अयं खण्डः राष्ट्राय समर्पयिष्यते।”

तेन अन्यदपि उक्तं यत् उद्घाटन-दिने द्वे वन्दे भारत्-एक्सप्रेस्-नामक-रेल्योः सेवाः आरम्भं प्राप्स्यतः — एकं श्रीनगरतः, अपरं कट्रातः श्रीनगरं प्रति गमिष्यति।

रेलमण्डलस्य कार्यपालननिदेशकः अपि उक्तवान् यत् — “परियोजनायाः आरम्भ-दिनाङ्के द्वे वन्दे भारत् रेल्यानि प्रचालयितुं योजना कृतवती। एकं वन्दे भारत् श्रीनगरतः प्रस्थास्यति, अपरं कट्रातः श्रीनगरं यास्यति। २३ जनवरी दिनाङ्के भारतीयरेल्वे श्रीमातावैष्णोदेवी-कट्रारेल्वे-स्थानकात् श्रीनगर-स्थानकपर्यन्तं प्रथमं वन्दे भारत् रेलयानस्य परीक्षण-सञ्चालनं कृतवती।एतत् रेलयानं काश्मीरी-घाटीस्थस्य शीतकालीन-जलवायुविशेषस्य अनुकूलं विनिर्मितम् अस्ति।

हिन्दुस्थान समाचार