Enter your Email Address to subscribe to our newsletters
चेन्नई, 13 अप्रैलमासः (हि.स.)।राज्यविधानसभाया: निर्वाचनस्य संकेतपूर्वं पट्टाली मक्कल काचि (पीएमके) इत्यस्य दलस्य अन्तःकलहः सम्प्रति स्पष्टतया प्रकाशमागतः।
दलस्य संस्थापकः श्रीरामदासः स्वपुत्रं अम्बुमणिरामदासम् अध्यक्षपदात् अपास्य स्वयमेव अध्यक्षपदं स्वीकृतवान्। ततः अनन्तरं दलनायकः अम्बुमणिरामदासः आत्मनं एव अध्यक्षरूपेण स्थितमिति दावान् कृतवान्।
राज्यसभायाः सांसदः अम्बुमणिरामदासः 28 मे 2022 दिनाङ्के चेन्नईनगरे आयोजिता दलस्य सामान्यपरिषद्–सभायाम् स्वस्य अध्यक्षपदप्राप्तिं प्रमाणरूपेण प्रस्तुतवान्।
दलस्य समस्तविभागान्, पदाधिकारिणः च महाबलिपुरे आयोज्यमाने चिथिरैपूर्णिमासंमेलनम् प्रति एकतया कार्यकर्तुं, च 2026 तमस्य राज्यविधानसभानिर्वाचनस्य सिद्ध्यर्थं तत्परं भवितव्यमिति सः आग्रहम् अकरोत्।
अम्बुमणिना उक्तं यत् – पिता डॉ. रामदासस्य राजनीतिकदृष्टेः आदरः करणीयः, तस्य प्राप्तानां सफलतानां माध्यमेन पितुः राजनीतिकविरासतस्य संवर्धनम् एव आत्मनः प्रमुखकर्तव्यमिति पुनरुक्तम्।
पित्रा दलात् अपास्य अपि स्वं पीएमके अध्यक्षं रूपेण स्थितमिति अम्बुमणिना दृढतया निगदितम्।
यथार्थतः, पीएमके संस्थापकः एस्. रामदासः विधानसभानिर्वाचनस्य पूर्वं गुरुवासरे स्वपुत्रं अम्बुमणिं दलप्रमुखपदात् अपास्य स्वयमेव अध्यक्षत्वं घोषितवान्। तेन अम्बुमणिं कार्यवाहक–अध्यक्षपदेन नियुक्तं कृतम्।
---------------
हिन्दुस्थान समाचार