Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 14 अप्रैलमासः (हि.स.)। भारतरत्नं डॉ भीमराव-अम्बेडकरस्य जयन्त्यावसरे सोमवासारे प्रातःकाले संभागीय आयुक्तः विजयविश्वासपंतः एवं मुख्यविकासाधिकारी गौरवकुमारः च जनपदपंचायतसभागारे बाबासाहेबस्य चित्रे पुष्पार्पणं कृत्वा प्रभातभ्रमणस्य आरम्भः अभवत्।
जनपदपंचायतसभागारतः प्रभातभ्रमणस्य उद्घाटनं संभागीय आयुक्तः अकरोत्। राणाप्रतापचतुष्कात् प्रारभ्य नगरस्य विभिन्नमार्गेण गत्वा जिलापञ्चायतसभाशालायां प्रात: शोभायात्रा समाप्तवती।
अस्मिन् अवसरे भाजपायाः नवनियुक्तमहानगराध्यक्षः संजयगुप्ता, बौद्धभिक्षु, आरक्षकाः एवं प्रशासनिकअधिकारी, विद्यालयस्य बालकाः आदयह उपस्थिताः आसन् ।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani