मुख्यमंत्री योगी हरदोय्यां 650 कोटिरुप्यकाणां विकास परियोजनानां कृतौ लोकार्पणं शिलान्यासश्च
-मुर्शिदाबादम् आधृत्य ममतया कांग्रेसदले अपि मुख्यमंत्री योगी अकरोत् प्रहारम्। हरदोई, 15 अप्रैलमासः (हि.स.) मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे अत्र प्रथमस्वातन्त्र्यसंग्रामस्य 1857 तमे वर्षे नायकत्वं कृतवन्तं अमरसैनिकं राजा नरपति सिंह रैकवारम्
मुख्यमंत्री योगी


-मुर्शिदाबादम् आधृत्य ममतया कांग्रेसदले अपि मुख्यमंत्री योगी अकरोत् प्रहारम्।

हरदोई, 15 अप्रैलमासः (हि.स.) मुख्यमन्त्री योगी आदित्यनाथः मङ्गलवासरे अत्र प्रथमस्वातन्त्र्यसंग्रामस्य 1857 तमे वर्षे नायकत्वं कृतवन्तं अमरसैनिकं राजा नरपति सिंह रैकवारम् आदरपूर्वकं पुष्पाञ्जलिं समर्प्य सस्मार। अस्मिन्नवसरे मुख्यमन्त्रिणा योगिना आदित्यनाथेन जनपदाय षट्षष्टिशतकोटि (650 कोटि) मूल्यकाणां सप्तशतानां नवविंशत्यधिकानां (729) विकासपरियोजनानां लोकार्पणं शिलान्यासश्च कृतौ।

कार्यक्रमं संबोधितुं कृत्वा मुख्यमन्त्री योगी आदित्यनाथः अवदत्— “राज्ञः नरपति सिंहस्य अस्याम् पुण्यधराम् आगत्य तेषां विजयमहोत्सवस्य अवसरं साकं भवन्तं सर्वान् अभिनन्दयितुं प्राप्तः। तेषां शौर्यपराक्रमयोः कारणतः वयं स्वतंत्रतायाः लाभं प्राप्य योजनानां संचालनं कर्तुं समर्थाः। एषः वर्षः अस्माकं राष्ट्रस्य संविधानस्य प्रवर्तनस्य पंचसप्ततितमवार्षिकोत्सवस्य ‘अमृतमहोत्सवः’ इति स्वरूपेण अग्रे गमिष्यति। बाबा साहेब डॉ० आम्बेडकरस्य कृपया उत्तरदक्षिणदिकयोः एकस्य भारतस्य, श्रेष्ठस्य च भारतस्य कल्पना साकारता प्राप्तवती।”

मुख्यमन्त्री योगी उक्तवान् यत् विदेशीयान् आक्रान्तॄन् प्रति सम्पूर्णदेशः एकत्रित्य युध्यते स्म इति दुर्लभं दृश्यं। किन्तु 1857 तमस्य वर्षस्य क्रान्त्या सर्वत्र देशे उत्साहः जागृतः जातः। मंगल पाण्डेय इत्यस्मात् पृष्टम्— ‘त्वं स्वतन्त्रतां किमर्थं इच्छसि? त्वं तु आङ्ग्लसेनायामस्ति।’ तेनोक्तम्— ‘गृह्णातु भवतः नोकरिः, अस्माकं देशः स्वतन्त्रः भवितव्यः।’ ततः रानी लक्ष्मीबाई, राजा नरपति सिंह, इत्यादीन् अन्यांश्च महापुरुषान् स्मृतवान्।”

अवदत् च— “हरदोई जनपदस्य सीमायां वस्त्रउद्योगपार्कस्य स्थापना भविष्यति। सहस्त्रशः युवानः कर्मनिमित्तं लप्स्यन्ते। अत्रस्थैः कारीकैः रोजगारः लप्स्यते। सम्पूर्णदेशेभ्यः जनाः हरदोई इत्यस्मिन् आगन्तव्यम्। जनपदस्य सम्पर्कव्यवस्था सुधार्यते। अस्य प्रदेशस्य पक्षिविहारस्य सम्पर्कमपि सुदृढं भविष्यति।”

मुख्यमन्त्री योगी उक्तवान्— “ये जना भारतस्य जीवनपद्धतिं समरसतां च विषये प्रश्नाः उठयन्ति स्म, ते प्रयागराजकुम्भस्य दृश्यं दृष्ट्वा चकिताः जाताः। एकस्य भारतस्य श्रेष्ठस्य भारतस्य अतीव अनुपमे उदाहरणं तत्र दृश्यते स्म। भारतजनाः अपि गङ्गास्नानाय इच्छन्ति स्म। विदेशीयाः अपि भीमान् जनसमूहं दृष्ट्वा विस्मिताः। एषः एकतायाः चिन्तनस्य फलं जातम्।”

ममता बनर्जी च कांग्रेसं प्रति अपि प्रहारः

मुख्यमन्त्री योगी आदित्यनाथः अवदत्— “अद्य राष्ट्रे नवानवाः विकासपरियोजनाः आगच्छन्ति। राष्ट्रः प्रगतिपथेन गच्छति। शीघ्रमेव भारतम् विश्वस्य तृतीयं अर्थतन्त्रं भविष्यति। वयं सर्वे अग्रे गच्छामः। 2017 तमस्य वर्षात् पूर्वं उत्तरप्रदेशे किं स्थितिः आसीत्, तद् स्मर्तव्यं। तदा शासनानि दंगाकारिणः पूर्णरूपेण स्वच्छन्दं कुर्वन्ति स्म। दङ्गाः अभवन्। अद्य उत्तरप्रदेशे दङ्गा न दृश्यन्ते। ‘लातानां भूतः वाक्यानां न श्रुणोति’— एतेषां दंगाकारिणां उपचारः दण्ड एव।”

मुर्शिदाबादघटनां विषये योगी उक्तवान् यत् न्यायालयेन तत्र रक्षाव्यवस्थायाः आदेशः दत्तः अस्ति।” ममता बनर्जी सहित कांग्रेसम् अपि आक्रम्य अवदत्— “उत्तरप्रदेशे भूमिकापहरणं गुण्डागर्द्दिं च करणाय कोऽपि अवसरः न भविष्यति। ते जनाः ये यथेष्टं लुण्ठितवन्तः, अद्य भयभीताः— स्वकीयैः एव लुटितं धनं पुनः न लुट्यते इति।”

मुख्यमन्त्री उक्तवान्— “वक्फ्-सम्बन्धेन अपि जनानां भ्रमप्रसारणं क्रियते। वक्फपि लुण्ठनकेंद्रं जातम्। प्रधानमंत्री नरेन्द्रमोदिना नेतृत्वे राष्ट्रं ‘विकसितभारतस्य’ यात्रां शीघ्रतया कुर्वन् अस्ति।”

अस्मिन्नवसरे आबकारीराज्यमन्त्री (स्वतन्त्रप्रभारः) नितिन अग्रवालः, परिवहनराज्यमन्त्री (स्वतन्त्रप्रभार) दयाशंकरसिंहः, राज्यमन्त्री रजनी तिवारी, सांसदौ जयप्रकाशरावतः, अशोक रावतः, विधायकाः आशीषसिंह आसुः, मानवेन्द्रसिंहः, श्यामप्रकाशः च अन्ये च नेतारः अधिकारीणश्च उपस्थिताः।

हिन्दुस्थान समाचार