Enter your Email Address to subscribe to our newsletters
विकसित भारतम्-2047 आलक्ष्य वानिकीभूमिकायाः विषये भोपालनगरे द्विदिनात्मकं राष्ट्रियकार्यशालायाः आयोजनम्।- मुख्यमंत्री डॉ॰ मोहनयादवः केन्द्रीयवनपर्यावरणमन्त्री भूपेन्द्र यादवः शुभारम्भं करिष्यतः।- वनसंरक्षणे, पारम्परिके ज्ञानवर्गे, समुदायाधारितविकासे च मन्थनं भविष्यति।भोपालम्, १५ अप्रेलमासः (हि.सं.)।मध्यप्रदेशराज्यस्य जनजातिप्रदेशेषु वनपुनर्स्थापनम्, जलवायुपरिवर्तनम्, समुदायाधारिताः आजीविकाविकासश्च — एतेषु विषयेषु केन्द्रितं द्विदिनात्मकं राष्ट्रियकार्यशालायाः आयोजनं भोपालनगरे स्थिते नरोन्हा प्रशासन अकादम्यां स्थले १८ अप्रेल शुक्रवासरम् आरभ्य भविष्यति। अस्य कार्यशालायाः उद्घाटनं केन्द्रीयवनपर्यावरणजलवायु-परिवर्तनमन्त्री श्री भूपेन्द्र यादवः मध्यप्रदेशमुख्यमन्त्री डॉ॰ मोहनयादवः च करिष्यतः।कार्यक्रमस्य प्रारम्भः व प्रमुखवक्तव्यंजनसम्पर्काधिकारी श्री मुकेशमोदी मङ्गलवासरे उक्तवान् यत् कार्यशालायाः उद्घाटनसत्रे मुख्यमन्त्री डॉ॰ मोहन यादवः अध्यक्षतां करिष्यन्ति। मुख्यवक्तव्यं श्री भूपेन्द्र यादवः प्रदास्यन्ति। जनजातिकायामन्त्री डॉ॰ कुँवर विजय शाहः स्वागतवक्तव्यं करिष्यन्ति। द्विदिनात्मककार्यशालायाः रूपरेखा डॉ॰ राहुल मूंगीकर प्रस्तुतिकरिष्यन्ति। तस्मिन् अवसरे जनजातिसमुदायस्य च प्राकृतिकसंरक्षणविषये केन्द्रितं ध्वनिचित्रप्रदर्शनम् अपि भविष्यति।प्रमुखाः विषयाःवनसंरक्षणम्, पारम्परिकज्ञानम्, सामुदायिकप्रबन्धनं च एतेषु विविधसत्रेषु निम्नलिखितविषयेषु विस्तृतचिन्तनं भविष्यति। वर्तमानवनेषु शासनिकव्यवस्थाः, तासां मर्यादाः समाधानानि च।जैवविविधता-संशोधनअधिनियमः २०२३।सामुदायिकवनाधिकारः।पारम्परिकज्ञानस्य अभिलेखनम्।वनपुनर्स्थापनस्य उपायाः।बेंगळूरुनगरात् आगच्छन् प्रो रमेशः विशिष्टं वक्तव्यं करिष्यति। डॉ॰ योगेश गोखले, डॉ॰ राजेन्द्र दहातोंडे इत्यादयः वक्तारः अपि सत्राणि सम्बोधयिष्यन्ति।समापनसत्रे राज्यपालस्य सम्बोधनम्:कार्यशालायाः द्वितीये दिने समापनसत्रे राज्यपालः श्री मङ्गुभाई पटेल मुख्यातिथेः रूपेण उपस्थितः भविष्यति। पूर्व-राष्ट्रियजनजाति-आयोगाध्यक्षः श्री हर्ष चौहानः समापनवक्तव्यं करिष्यन्ति। कार्यशालायां वनीकरणम्, जलवायुसंवेदनशीलता, वनवासिसमुदायस्य समावेशीभागीदारी च सम्बन्धिन्यः वृत्तचित्रचलच्चित्राणि अपि प्रदर्शयिष्यन्ते।
विशेषटीका:प्रधानमन्त्रिणः नरेन्द्रमोदिनः “विकसितभारतस्य २०४७” दृष्टिकोणे वनेषु जैवविविधतायां प्राकृतिकसाधनानां च भूमिकायाः अतिविशिष्टं स्थानं वर्तते। एषा कार्यशाला — वनेषु, जीवविविधतायां, जनजातीयजीविकायां च आधारितं सततं न्याय्यञ्च विकासमार्गं प्रदर्शयति।
------------
हिन्दुस्थान समाचार