Enter your Email Address to subscribe to our newsletters
प्रयागराजः, 16 अप्रैलमासः (हि.स.)।मुख्यमन्त्रिसहभागितायोजनान्तर्गतं प्रयागराजे ७०० परिवारैः १४०० निराश्रितगोवंशस्य पालनम् उत्तरप्रदेशराज्यस्य मुख्यमन्त्री-निराश्रित-गाय-सहभागिता-योजना अन्तर्गतं प्रयागराजजिले ७०० परिवाराः १४०० निराश्रित-गोवन्शस्य पालनं कुर्वन्ति। एतेषां गोवंशानां भरण-पोषणार्थम् उत्तरप्रदेश-सरकारा डि.बी.टी. (प्रत्यक्ष लाभ अंतरण) प्रणालीद्वारा प्रतिगोवन्शं प्रतिदिनं ₹५० (पञ्चाशत् रूप्यकाणि) पशुपालकस्य खाते सम्प्रेषयति।
एषा सूचना बुधवारदिनाङ्के प्रयागराजजनपदस्य मुख्यपशुवैद्यकाधिकारिणा डॉ. शिवनाथ-यादवेन प्रदत्ता। तेन उक्तं यत् योजना अन्तर्गतं ये जनाः निराश्रितान् गोवन्शान् स्वीकुर्वन्ति, तान् प्रति गोवन्शं प्रतिदिनं ₹५० प्रमाणेन धनं सरकारतः लभते।
योजनायाः नियमेन एकस्मै पशुपालकाय अधिकतम् चत्वारः (४) गोवन्शाः दातव्याः, तेन सः प्रतिदिनं ₹२०० (द्विशतं रूप्यकाणि) तथा मासे ₹६००० (षट्सहस्रं रूप्यकाणि) लभते।
य इच्छेत निराश्रितं गोवन्शं स्वीकर्तुं, सः स्वजनपदस्य प्रत्येकविकासखण्डे स्थितस्य पशुचिकित्सालयस्य पशुचिकित्सकं सम्पर्क्य, निर्धारितप्रारूपेण आवेदनं दत्वा, तत्रैव प्रार्थनापत्रं समर्पयेत्।
ततः अनन्तरं गोवन्शस्य कर्णे टैग स्थाप्य, सः गोवन्शः पशुपालकाय समर्प्यते। एते सर्वे गोवन्शाः सरकारया सञ्चालितायाः गौशालायाः माध्यमेन उपलब्धीक्रियन्ते।
डॉ. शिवनाथ-यादवेन अपि उक्तं यत् प्रयागराजजनपदे ७०० परिवाराणां कृते १४०० गोवन्शाः वैधानिकप्रक्रियायाः पूर्णतां प्राप्त्यनन्तरं प्रदत्ताः।
एवं प्रकारेण एतेषां निराश्रितपशूनां भरण-पोषणार्थं उत्तरप्रदेशराज्यस्य योगीसरकारा पशुपालकानां कोषेषु प्रत्यक्षं धनं समर्पयति।
---------------
हिन्दुस्थान समाचार