Enter your Email Address to subscribe to our newsletters
चेन्नई, 17 अप्रैलमासः (हि.स.)।तमिऴनाडुराज्यस्य मुख्यमन्त्री एम्.के. स्टालिन महोदयः चेन्नईनगरे सिरुसेरीप्रदेशे सिफी-प्रौद्योगिकीसंस्थया स्थापितं दक्षिणभारते सर्वात्युत्तमम् ए.आई.-सन्नद्धं दत्तांशकेन्द्रम् उद्घाटितवान्।
एतत् अत्याधुनिकं केन्द्रं कृत्रिमबुद्धेः उच्च-कार्यकुशल-गणनायाः च वर्धमानम् आह्वानम् अपि समीकृत्य विविधेषु उद्योगक्षेत्रेषु उपयोगाय विशेषतया निरूपितम् अस्ति।
उल्लेखनीयम् यत् सिफी-संस्थायाः एतत् दत्तांशकेन्द्रम् पर्यावरण-सौहित्येन योजनायाम् स्थाप्यते। अधुना एतस्मिन् परिसरम् 130+ मेगावाट्-पर्यन्तं प्रभावशालिनी सूचना-प्रौद्योगिकी-शक्ति अस्ति, या उच्चक्षमता, न्यूनं विलम्बं, लघु नेटवर्कप्रवेशं च सुनिश्चितयति।
कम्पनी अस्य वर्षस्य अन्तेपर्यन्तम् एतस्य केन्द्रस्य क्षमता 407+ मेगावाटपर्यन्तं वर्धयितुम् योजना कुर्वन्ति। एषा योजना तमिऴनाडुराज्यस्य प्रौद्योगिकी-नवोन्मेषयोः केन्द्ररूपेण स्थितिं अधिकं सुदृढयिष्यति।
अत्र दत्तांशस्य रक्षणाय उच्चस्तरीया सुरक्षा-व्यवस्था अपि विन्यस्तम् अस्ति।
सिफी-संस्थायाः एषः ए.आई.-सन्नद्धः दत्तांशकेन्द्रपरिसरः प्रारम्भे निवेशं आकर्षयिष्यति, राज्ये च नूतनव्यवसायोपयोगाय अवसरान् उत्पादयितुम् अपेक्ष्यते।
---------------
हिन्दुस्थान समाचार