चक्रवात-ओलावृष्टियोः कृते सुरक्षाकार्यं करणीयम् : योगी
लखनऊ, 18 अप्रैलमासः (हि.स.)। चक्रवातः, वृष्टिः, ओलावृष्टिः, सविद्युत् च दृष्ट्वा मुख्यमन्त्री योगी आदित्यनाथः सम्बन्धितजनपदेषु अधिकारिभ्यः पूर्णतया शीघ्रं सुरक्षाकार्यं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् अधिकारिणः क्ष
मुख्यमंत्री योगी


लखनऊ, 18 अप्रैलमासः (हि.स.)। चक्रवातः, वृष्टिः, ओलावृष्टिः, सविद्युत् च दृष्ट्वा मुख्यमन्त्री योगी आदित्यनाथः सम्बन्धितजनपदेषु अधिकारिभ्यः पूर्णतया शीघ्रं सुरक्षाकार्यं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् अधिकारिणः क्षेत्रस्य भ्रमणं कृत्वा सर्वेक्षणं करणीयाः, राहतकार्यस्य विषये दृष्टिः स्थापयितव्याः। आपदाकारणात् प्राणहानिः पशूनां च हानिः भवति चेत् तत्क्षणमेव प्रभावितजनानां कृते सहयोगराशिं वितरन्तु। क्षतिग्रस्तानां सम्यक् चिकित्सा कर्तव्या। गोधूमस्य प्रचलति सर्वकारीयक्रयणं दृष्ट्वा मण्डीसहितेषु सर्वेषु क्रयणकेन्द्रेषु गोधूमस्य सुरक्षितभण्डारणं प्रति पूर्णं ध्यानं दातव्यम्। सर्वेक्षणं कृत्वा सस्यहानिः मूल्याङ्कनं कृत्वा प्रतिवेदनं सर्वकाराय प्रेषयन्तु येन अस्मिन् विषये अग्रे कार्यवाही कर्तुं शक्यते। जलसंकटस्य सन्दर्भे प्राथमिकतानुसारं जलनिष्कासनस्य व्यवस्था करणीयम् ।

हिन्दुस्थान समाचार / Dheeraj Maithani