देहलीविश्वविद्यालयस्य कुलपतिः पत्रकारितायाः छात्राभ्यो मल्टीमीडिया स्टूडियो समुद्घाटितवान्
नवदिल्ली, 18 अप्रैलमासः (हि.स.)।दिल्ली-विश्वविद्यालयस्य दक्षिणपरिसरे हिन्दी-विभागेन सञ्चालितं पत्रकारितायाः पाठ्यक्रमं प्रति छात्रेभ्यः गुरुवासरे नवं मल्टिमीडिय-स्टुडियो उद्घाटितम्। एतस्य स्टुडियः उद्घाटनं दिल्ली-विश्वविद्यालयस्य कुलपतिना प्रो. योगे
दिल्ली विश्वविद्यालय कुलपति योगेश सिंह (फाइल फोटो)


नवदिल्ली, 18 अप्रैलमासः (हि.स.)।दिल्ली-विश्वविद्यालयस्य दक्षिणपरिसरे हिन्दी-विभागेन सञ्चालितं पत्रकारितायाः पाठ्यक्रमं प्रति छात्रेभ्यः गुरुवासरे नवं मल्टिमीडिय-स्टुडियो उद्घाटितम्।

एतस्य स्टुडियः उद्घाटनं दिल्ली-विश्वविद्यालयस्य कुलपतिना प्रो. योगेशसिंहेन कृतम्।

दक्षिणपरिसरस्थितं मल्टिमीडिय-स्टुडियो अत्याधुनिकयुक्त्या उपकरणैः च सुसज्जितम् अस्ति, यत् मल्टिमीडिय-सामग्रीनिर्माणं सुकरं करिष्यति।

अत्र श्रव्य-दृश्य-उत्पादनम्, ग्राफिक्-रूपसज्जा, चलनचित्ररचना (एनीमेशन), अन्ये च डिजिटल्-माध्यम-प्रकल्पाः सम्मिलिताः भवन्ति।

एषः स्टुडियो विद्यार्थिनां कृते सृजनात्मक-सहकारी-परिसररूपेण रचितः, यत्र ते विभिन्न-माध्यम-तत्त्वैः स्वविचारान् मूर्तरूपेण प्रस्तुं शक्नुवन्ति।

पॉडकास्ट्-कायर्क्रमस्य समये, डॉ. सीमा-भारत्या पृष्टेषु प्रश्नेषु कुलपतिः प्रो. योगेशसिंहः प्रत्युत्तरं दत्त्वा अवदत् यत्—

मम त्रिवर्षीय-कुलपतिपदकालस्य अन्तर्गतं मया आधारभूत-संरचनायाः कृते कर्म कृतम्।

वर्तमानतः २२ प्रकल्पाः प्रचलन्ति, ये च आग्रिमे समये अपि अनवरतं सम्पद्यिष्यन्ते।

गतत्रिंशद्वर्षेभ्यः परं प्रथमवारं अस्मिन् विश्वविद्यालये नवः महाविद्यालयः संस्थापितः।

राष्ट्रिय-शिक्षा-नीतिः प्रथमतया दिल्ली-विश्वविद्यालये एव प्रवर्तिता इति विषये सः अवदत्—

अहम् इच्छामि यत् एषा नीतिः पूर्णरूपेण प्रवर्तते।

अनेन प्रयोगेन शिक्षायाम् अपि नववस्तूनां समावेशः सम्भवेत्।

अन्ते सः अवदत् यत्—

शिक्षकेभ्यः एषा बात् मनसि स्थापनीया यत् — ये पत्रकाराः युष्माभिः प्रशिक्ष्यन्ते, ते राष्ट्रं प्रेम्णा पश्येयुः, राष्ट्रहितं रक्षेयुः, निजहितं राष्ट्रहितात् ऊर्ध्वं न स्थापयन्तु।

एतस्मिन् अवसरि प्रो. बलराम-पाणिः (अधिष्ठाता), प्रो. प्रकाश-सिंहः (दक्षिणपरिसर-निदेशकः), डॉ. विकास-गुप्तः (कुलसचिवः), अनुप-लाठरः (सांस्कृतिकपरिषद्-अध्यक्षः), प्रो. सुधा-सिंहः (हिन्दीविभागाध्यक्षा), प्रो. अनिल-रायः (दक्षिणपरिसरस्थ-हिन्दीविभागस्य प्रभारी), प्रशान्त-नागरः, डॉ. सीमा-भारती, प्रभाकर-मिश्रः, अन्ये च पूर्ववर्ती-वर्तमानश्च छात्राः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार