चर्चमंदिरे समाचरितं गुड फ्राईडे, प्रभुः यीशुः आराधितः तत्र युक्तः समाजजनः
धमतरी, 18 अप्रैलमासः (हि.स.)। मसीहीसमाजेन धमतरीनगरे शुक्रवासरे अष्टादशे एप्रेल तमे दिनाङ्के सुन्दरगञ्ज चर्चमंदिरे आयोजिते ‘गुड् फ्राइडे’ इत्यस्मिन् विशेष-प्रार्थनायाः कार्यक्रमे भक्तिपूर्विका आराधना सम्पन्ना। अस्मिन् अवसरः दिल्लीतः आगतः पास्टर् अल्फ
सुंदरगंज चर्च में गुड फ्राई-डे पर गीत प्रस्तुत करती हुई क्वायर समूह की महिलाएं।


गुड फ्राई-डे पर परसुंदरगंज चर्च में आयोजित कार्यक्रम में उपस्थित समाजजन।


धमतरी, 18 अप्रैलमासः (हि.स.)।

मसीहीसमाजेन धमतरीनगरे शुक्रवासरे अष्टादशे एप्रेल तमे दिनाङ्के सुन्दरगञ्ज चर्चमंदिरे आयोजिते ‘गुड् फ्राइडे’ इत्यस्मिन् विशेष-प्रार्थनायाः कार्यक्रमे भक्तिपूर्विका आराधना सम्पन्ना। अस्मिन् अवसरः दिल्लीतः आगतः पास्टर् अल्फांसो लारेन्स मुख्यवक्तारूपेण सन्न्यः आसीत्। सः स्वसंदेशे उक्तवान् यत् परमेश्वरः स्वपुत्रं यीशुं लोके प्रेषितवान् यः पापकबन्धने पतितस्य मानवं समाजस्य दण्डं स्वशरीरे स्वीकर्तुं शक्नोति।

सः जगति आगत्य क्षमा, प्रेम, सौहार्दं, तथा दीनजनसेवायाः शिक्षां प्रदत्तवान्। क्रूशे स्वप्राणं मानवजातेः पापकष्यायै बलिं दत्तवान्।

अस्मिन् आराधनायाम् ‘यीशोः सप्तवाणी’ प्रचारिता।

कार्यक्रमस्य आरम्भे आराधनायाः आह्वानः, आरम्भिकं प्रार्थनागीतं च प्रस्तुतम्। कलीसियायाः प्रार्थनासेवकः किरण जानसन, प्रथमवाणी-शास्त्रपाठं योगेशलालेन कृतम्। ततः परं पास्टर् अल्फांसो संदेशं वितरितवान्।

द्वितीयवाणी-शास्त्रपाठं राकेश् सालोमनेन, तृतीयवाणी-पाठं सपना पालया, चतुर्थवाणी-पाठं राजेशमसीहेन, पञ्चमीवाणी-पाठं प्रणयतिवारिना, षष्ठीवाणी-पाठं संगीतानाथया च कृतम्।

सप्तमीवाणी-पाठः डॉ. विनेश् मयंक विक्टर इत्यनेन कृतः। कार्यक्रमस्य संचालनं सेवकेन अनिल् राघवेन कृतम्। भेटार्पणस्य प्रार्थना सेवकः एस् सिंह् क्रिस्टी कृतवान्।

अन्ते प्रार्थना आशीर्वचनं च रेव् दीपक् मसीहेन दत्तम्।

अस्मिन् कार्यक्रमे प्रमुखरूपेण तत्र उपस्थिताः आसन् आशीषः मिलापः, दीपको मसीहः, अनिल राघवः, एल् सी क्रिस्टी, किरण जानसनः, थेल्मा महतो, अर्चना नेतामः, शैलजा सोनवानी, डॉ. नीरज नेतामः, स्वपनिलसोनवानी, राकेश् सालोमनः, योगेश् लालः, प्रणय तिवारी, प्रणय लालः, मितेश बेथे, राजेशमसीहः, डॉ. विनेशः, सपना पालः, संगीता नाथः, सरिता असाई, मार्विनचरणः, कल्याण मसीहः, वालेशचरणः, अमितबाघमरिया, डॉ. आशुतोषमसीहः अमनमिंजः, आशीषचौहानः, शितुरावः, हितेशलालः, राहुलमसीहः, जैकलिन मसीहः, शैलजा क्रिस्टी, शालिनी बंशी, सविता विलियम्, सविता क्रिस्टी, विर्सिका लुईस, विन्नी

सपाटे, मोना सपाटे च।

हिन्दुस्थान समाचार