आरएस पुरा हेरिटेज रेलवे स्थानकस्य 1.5 कोटिरुप्यकाणां व्ययेन जीर्णोद्धारः करिष्यते
जम्मूः, 19 अप्रैलमासः (हि.स.)।आर.एस्.पुरा रेलस्थानकस्य समृद्धं ऐतिहासिकं महत्वं प्रकाशयन् आर.एस्.पुरा–जम्मू-दक्षिणक्षेत्रस्य विधायकः भारतजनता-पक्षस्य च राष्ट्रिय-सचिवः डा. नरिन्दर सिंह महोदयः हेरिटेज् स्थले संरक्षणाय पर्यटनस्य च संवर्धनाय लक्षं कृत्व
आरएस पुरा हेरिटेज रेलवे स्टेशन का 1.5 करोड़ की लागत से जीर्णोद्धार किया जाएगा


जम्मूः, 19 अप्रैलमासः (हि.स.)।आर.एस्.पुरा रेलस्थानकस्य समृद्धं ऐतिहासिकं महत्वं प्रकाशयन् आर.एस्.पुरा–जम्मू-दक्षिणक्षेत्रस्य विधायकः भारतजनता-पक्षस्य च राष्ट्रिय-सचिवः डा. नरिन्दर सिंह महोदयः हेरिटेज् स्थले संरक्षणाय पर्यटनस्य च संवर्धनाय लक्षं कृत्वा एकस्मिन् प्रमुखे जीर्णोद्धार-परियोजनायाः १.५ कोटि रूप्यकाणां व्ययेन उद्घोषणा कृतवान्। तस्य स्थलस्य स्वदर्शनस्य अवसरः समुपलभ्य सः अनेन प्रकारेण ऐतिहासिक-स्थलानां पुनःसंरक्षणं संस्कृतेः रक्षणाय, पर्यटनस्य संवर्धनाय, स्थानीय-आर्थिकव्यवस्थायाः च सुदृढीकरणाय अत्यन्तं महत्वपूर्णं इति प्रबलं बलं दत्तवान्।आर.एस्.पुरा रेलस्थानकं यः कदाचित् जम्मू-सियालकोट्-रेलमार्गे एकं महत्वपूर्णं संयोजकस्थलं आसीत्, क्षेत्रीय-व्यापारस्य सम्पर्कस्य च संवर्धने प्रमुखं भूमिं वहति स्म। अस्य जीर्णोद्धाराय निविदा पूर्वमेव प्रकाशिताभवत्, तथा नूतनं रेलस्थानकं सुचेतगढ् सीमारेखा, घराण-वेटलैण्ड् इत्यादीन् समीपस्थानां आकर्षणानां पूरकं भविष्यति इति अपेक्षा अस्ति, यः समग्रः क्षेत्रः गुणवत्तायुक्तया मार्गव्यवस्थया योजनाबद्ध-उड्डानपुलैः च सम्यक् प्रकारेण संयोजितो भविष्यति।वरिष्ठः भारतजनता-पक्ष-नेता बृजेश्वर सिंह राणा, मण्डलाध्यक्षः नवीन, महासचिवः कृष्णलालः, पार्षदः लकी छाबड़ा, लकी, ओम् प्रकाशः चाचू च इत्येते स्थानीय-नेतारः डा. सिंहेन सह आर.एस्.पुरा-निवासिनः पूर्णीकृतानि विकास-कार्याणि समर्पितवन्तः। एषु मलिकपुर-पञ्चायति ८ लक्ष-रूप्यकाणां व्ययेन आर.एस्.पुरायां च १० लक्ष-रूप्यकाणां व्ययेन नवनिर्मिताः गल्यः नालिकाः च सम्मिलिताः।डा. सिंहः सक्रिय-जनसेवायाः प्रति स्वस्य प्रतिबद्धतां पुनः व्यहरन् अवदत् यत् प्रचलमानाः भविष्ये च सञ्चालनीयाः आधारभूत-संरचनायाः परियोजनाः क्षेत्रस्य संचारक्षमता-पारस्परिकता-पर्यटनशक्ती च संवर्धयिष्यन्ति। दीर्घकालिक-सामुदायिक-हिताय हेरिटेज्-रक्षणस्य च आर्थिकविकासेन सह समायोजनं कर्तुं प्रयासाः क्रियन्ते इति च तेन निगदितम्।

हिन्दुस्थान समाचार