Enter your Email Address to subscribe to our newsletters
चण्डीगढम्, 19 अप्रैलमासः (हि.स.)। हरियाणा मुख्यमन्त्री नायब सैनी इदानीं शीघ्रं कार्यवाही कर्तुं मुख्यमन्त्री वातायनमार्गेण प्राप्तानां पतिवादानां निरीक्षणं वर्धयिष्यति। हरियाणासर्वकारस्य नागरिकसंसाधनसूचनाविभागेन शनिवासरे महत्त्वपूर्णा नियुक्तिसूचना प्रकाशिता। सोसाइटीफ़ॉर्ई आईटी इनिशिएटिव् फण्ड् फ़ॉर् ई-गवर्नेन्स इत्यनेन निर्गतस्य अस्याः अधिसूचनायाः अन्तर्गतं मुख्यमन्त्री परिवादनिवारणव्यवस्थायाः (मुख्यमन्त्री वातायानम्) कृते विशेषसहायकद्वयं नियुक्तं भविष्यति, यस्य कृते सर्वकारेण विंशतिसहस्ररूप्यकाणां मासिकवेतनं निर्धारितम् अस्ति। आवेदनपत्राणां निवेदनस्य तिथिः 21 अप्रैल इति निर्धारिता अस्ति। अस्य पदस्य अन्तिमतिथिः 25 अप्रैल इति निर्धारिता अस्ति। नवीनपदानां साक्षात्कारः मई 01 दिनाङ्के भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani