Enter your Email Address to subscribe to our newsletters
किशनगंजः,21अप्रैलमासः(हि.स.) प्रदेशाध्यक्षः महाकालसेवासमितेः च सचिवः चञ्चलमुखर्जी इत्यस्य निधनं प्रति सोमवासरे जिलापरिवहन-कार्यालयपरिसरे शोकसभा आयोजिता।शोकसभायां परिवहनकामगारसंघस्य महाकालसेवासमितेः च सदस्याः सम्मिलिताः। सदस्यैः स्वः चञ्चलमुखर्जी इत्यस्य चित्रे पुष्पार्पणं कृतम्। द्विमिनटनिष्कम्पध्यानं अपि तैः कृतम्।तस्मिन्नैव परिवहनमित्रकामगारसंघस्य सदस्यैः एकं दिवसं लेखनकार्यं विरामितम्। परिवहनकामगारसंघस्य महाकालसेवासमितेः च सदस्यैः अश्रुपूर्णनयनेन उक्तं यत् सः अनेकैः सामाजिकसंस्थाभिः सह सम्बद्धः आसीत्। तस्य निधनम् अत्यन्तं दुःखजनकं च अपूरणीयहानिः च अस्ति। सः अतीव मधुरभाषी स्वभावस्य व्यक्तिः आसीत्।कदाचित् कस्यचित् समस्या जाता चेत् सः सदा तस्य विषयं वरिष्ठाधिकारिणः पर्यन्तं प्रापयति स्म।शोकसभायाम् संजयकुमारः, नसीमअंसारी, प्रकाशदासः, पवित्रविश्वासः, रतनबनर्जी, दीपुः, धीरजः, फणिशचन्द्रः, मंतोषः, तेजनारायणः, अनिलकुमारः, श्यामदेवः, सैयदुलः च सम्मिलिताः आसन्।
हिन्दुस्थान समाचार