Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 21 अप्रैलमासः (हि.स.)।कामाख्यामन्दिरस्य समीपे एकं भीषणं मारणप्रहरणकाण्डं प्रकाशे आगतम्। एषा घटना कामाख्यामन्दिरात् बगला-मन्दिरदिशं यानमार्गे जातम्।
सोमवासरे पुलिसद्वारा प्रदत्ते सूचना अनुसारं, गुवाहाटिनगरे सुबोधकुमारसिंह इत्यस्य व्यक्तेः उपरि प्रायः पञ्चदशजनैः संयुक्तं एकेन गिरोहेन आक्रमणं कृतम्। सः कामाख्यामन्दिरं प्रति यानमार्गे आसीत्, तस्मिन्नेव समये आक्रमणकर्तारः तं परिवृत्य क्रूरं प्रहरणं कृतवन्तः। एतेन आघातेन सुबोधकुमारसिंह महतीं वेदनां प्राप्तवान्। तेन एतस्मिन् विषयेदृशं आरोपणं कामाख्या-पुलिसचौक्यां कृतम्।कामाख्या-पुलिसदलेन अद्यावत् षट् जनाः निगृहीताः, तथा च अनुसन्धानप्रक्रिया आरब्धा अस्ति।
हिन्दुस्थान समाचार