Friday, 2 May, 2025
पहलगामाक्रमणे छायायां आक्रान्तं चलचित्रम् 'अबीर गुलाल', वर्धितो बहिष्कारस्य ध्वनिः
पहलगामे जातस्य आतङ्कवादिघटनायाः अनन्तरं राष्ट्रे सम्पूर्णे शोकः क्रोधः च व्याप्तः अस्ति। एतेन सह अबीरगुलाल् नामकचलनचित्रस्य विषये सामाजिकमाध्यमेषु विरोधः तीव्रः जातः। अनेकैः उपयोक्तृभिः चलचित्रस्य बहिष्कारः करणीय इति आह्वानम् क्रियते।अस्मिन् चलचित्रे
अबीर गुलाल


पहलगामे जातस्य आतङ्कवादिघटनायाः अनन्तरं राष्ट्रे सम्पूर्णे शोकः क्रोधः च व्याप्तः अस्ति। एतेन सह अबीरगुलाल् नामकचलनचित्रस्य विषये सामाजिकमाध्यमेषु विरोधः तीव्रः जातः। अनेकैः उपयोक्तृभिः चलचित्रस्य बहिष्कारः करणीय इति आह्वानम् क्रियते।अस्मिन् चलचित्रे पाकिस्तानीयभिनेता फवाद खानः च भारतस्य अभिनेत्री वाणी कपूर् च प्रमुखं पात्रं वहतः, यत्र उभौ अपि प्रेमपूर्णं चरित्रं निर्वहतः। पूर्वमेव विवादेन युक्तं 'अबीरगुलाल्' चलचित्रं पुनरपि जनानां आलोचनायाः केन्द्रं जातम्।

सामाजिकमाध्यमेषु उपयोक्तारः वदन्ति यत् – अस्मिन संवेदनशीलकाले पाकिस्तानीयकलाकाराणां बॉलीवुडचलचित्रेषु समावेशः उचितः न अस्ति।

'अबीरगुलाल' नामकं चलचित्रम् आरती एस् बाग्डी नाम्ना निर्देशिकया निर्देश्यते, यत् ९ मे दिनाङ्के प्रेक्षागारेषु विमोचनं कर्तव्यम् अस्ति।परं विमोचनात् पूर्वमेव चलचित्रं विवादस्य केन्द्रे पतितम्। ह्यः एव काश्मीरराज्यस्य पहल्गामे जातस्मिन् आतङ्कवादिहिंसायाम् राष्ट्रं सम्पूर्णं कम्पितम् अभवत्, यस्मिन् २६ जनाः मृत्युमुपगताः, अनेकाः च आहताः।एतस्मिन् घटनानन्तरे सामाजिकमाध्यमेषु कश्चन वर्गः 'अबीरगुलाल्' चलचित्रस्य बहिष्कारम् आरब्धवान्। विशेषतः फवाद् खानस्य पाकिस्तानीयत्वं प्रति जनानां कोपः दृश्यते, यतः तेन वाणी कपूर् च युग्मं चलचित्रे प्रमुखं भूमिकां वहतः।

केचन उपयोक्तारः अस्य चलचित्रस्य विमोचनस्य विषये असन्तोषं व्यक्तवन्तः।कश्चन उपयोक्ता लिखति – “भारतस्य कस्यापि प्रेक्षागारे ‘अबीरगुलाल्’ चलचित्रस्य विमोचनाय अनुमति न दीयताम्।”अन्यः लिखति – “किं वयं अद्यापि पाकिस्तानीयभिनेता युक्तां फिल्म् विमोचयिष्यामः?”अपरो उपयोक्ता तीक्ष्णतया लिखति – “किं भारतीयचलच्चित्रजगत् अद्यापि पाकिस्तानीयकलाकाराणां पक्षे स्थितमस्ति?”एतेभ्यः प्रतिक्रियाभ्यः स्पष्टं भवति यत् – पहलगामे जातायां घटनायामनन्तरं चलचित्रे प्रति जनानां कोपः सामाजिकमाध्यमेषु तीव्ररूपेण प्रसारं प्राप्नोति।

--------------------------

हिन्दुस्थान समाचार