Enter your Email Address to subscribe to our newsletters
पटना, 24 अप्रैलमासः ( हि.स.)। कतिपयदिनानि यावत् बिहारस्य विभिन्नेषु जनपदेषु वर्षाकारणात् वातावरणे आर्द्रता आसीत् किन्तु गतचतुर्दिनानि यावत् तापमानस्य वृद्धेः, पश्चिमवायुस्य च कारणात् शुष्कता, तापः च तीव्रगत्या वर्धमानः अस्ति।
वातावरणविभागेन आगामिद्वय-त्रयदिनानां कृते तापतरङ्गस्य पूर्वज्ञापनम् जारीकृता अस्ति। 26 अप्रैलतः तूफानस्य वर्षणस्य च सम्भावना वर्तते।पूर्वचम्पारणः, पश्चिमचम्पारणः, शिवहरः गोपालगंजः जनपदेषु तापतरङ्गस्य विषये वातावरणविभागेन पीतसचेतना सूचिता अस्ति। त्रिदिनेषु अधिकतमं तापमानम् एकतः त्रिडिग्रीपर्यन्तं वर्धते इति पूर्वानुमानम् अस्ति । अपरपक्षे राजधानी बक्सर :, भोजपुर, भबुआ, रोहतासः, औरंगाबादः, अरवालः, नालंदा, जहानाबादः, गया, नवादा, बेगूसरायः, शेखपुरा, जमुई, खगड़िया, भागलपुरः, मुंगेर :, बांका इत्यादिषु १७ नगरेषु शुष्कवारावरणस्य सह तीव्रतापस्य पूर्वज्ञापनं सूचिता अस्ति।
वातावरणविभागस्य अनुसारं बिहारस्य वातावरणे 26 अप्रैलतः पुनः परिवर्तनस्य सम्भावना वर्तते। वातावरणविभागेन पुनः राज्ये विनाशकारीवृष्टिः, वज्रपातः, विद्युत्प्रवाहः च इति अलर्टः जारीकृतः। सीतामढ़ी, मधुबनी, पश्चिम चम्पारण :, शिवहरः, सुपौलः, अररिया, किशनगंजः, कटिहारः, बेगूसराय जनपदेषु पुनः एकवारं प्रचण्डवज्रपातस्य, वर्षायाः च पूर्वज्ञापनम् अस्ति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani