Enter your Email Address to subscribe to our newsletters
भोपालः, 24 अप्रैलमासः (हि.स.) ।प्रत्येकवर्षे २४ अप्रेल् दिनाङ्के राष्ट्रियपञ्चायतीराजदिवसः आचर्यते। भारतस्य तदा तत्कालीनप्रधानमन्त्रिणा डॉ. मनमोहनसिंहेन २४ अप्रेल् २०१० तमे वर्षे प्रथमं राष्ट्रियपञ्चायतीराजदिवसः इति घोषितः आसीत्।
मुख्यमंत्री डॉ. मोहनयादवः अस्मिन् पावने अवसरे प्रदेशवासिनः हार्दिकं शुभाशंसा बधाइश्च दत्तवान्। मुख्यमंत्री डॉ. यादवः सोशल् मिडिया एक्स् इत्यस्य माध्यमेन उक्तवान्—लोकतान्त्रिकव्यवस्थायाः गाढमूलानि पञ्चायतीनां सुदृढतां वर्धयन्ति। सशक्ताः पञ्चायत्यः एव समृद्धस्य राष्ट्रस्य निर्माणं कुर्वन्ति। अस्मिन् पुण्ये दिने मम शुभाशंसा यत् पञ्चायतीनां प्रगतियात्रा निरन्तरं प्रवहति।
हिन्दुस्थान समाचार