Enter your Email Address to subscribe to our newsletters
बालोदाबाजार, 24 अप्रैलमासः (हि.स .). जलसंरक्षण-अभियानस्य अन्तर्गतं भूजलस्तरं वर्धयितुं जनपदस्य सर्वेषु ग्रामपञ्चायतेषु प्रत्येकं ट्यूबकूपस्य समीपे अवशोषकभाण्डानि निर्मायन्ते। अधुना यावत् जनपदस्य 519 ग्रामपञ्चायतेषु प्रायः एकसहस्रं अवशोषकभाण्ड-निर्माणं सम्पन्नम् अस्ति ।
सीईओ जनपदपंचायत दिव्याग्रवालः उक्तवान् यत् जलसंरक्षणाभियानस्य अन्तर्गतं कार्यक्रमस्य अनुसारं 22 दिनांकतः अवशोषकभाण्डस्य निर्माणं प्रारम्भम् अभवत् । संतृप्ति-अभियानस्य अन्तर्गतं जनपदस्य सर्वासु ग्रामपञ्चायतानां प्रत्येकं ट्यूब-कूपस्य समीपे अवशोषकभाण्डनिर्माणं भविष्यति। विहितमानकानुसारं अवशोषकभाण्डनिर्माणं क्रियते।
उल्लेखनीयं यत्, जिलाधिकारी दीपकसोनी इत्यस्य निर्देशानुसारं जलसंरक्षणार्थं जलस्य समुचितप्रयोगाय च 18 अप्रैलतः 15 मई 2025 पर्यन्तं मण्डले जलसंरक्षण-अभियानं प्रचलति। अस्य अन्तर्गतं निर्धारितकार्यक्रमानुसारं विविधाः क्रियाकलापाः आयोजिताः सन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani