पहलगाम आतंकी आक्रमणे मृतानां त्रयाणां कृतः अंतिम संस्कारः
अहमदाबादनगरात्, २४ अप्रीलः (हि.स.)जम्मू-कश्मीरप्रदेशे पहलगामे २२ अप्रेल दिने जातेऽस्मिन्हिंसकातङ्कवादी-आक्रमणे मृत्युप्राप्तानां गुजरातराज्यवासिनां त्रयाणां जनानां गुरुवासरे अन्त्यसंस्कारः सम्पन्नः।भावनगरनगरे पिता–पुत्रयोः अन्त्यसंस्कारात् पूर्वं मुख
सूरत में अंतिम यात्रा में उमड़े लोग।


मृतक का शव गुजरात लाया गया।


मृतक का शव गुजरात लाया गया।


अहमदाबादनगरात्, २४ अप्रीलः (हि.स.)जम्मू-कश्मीरप्रदेशे पहलगामे २२ अप्रेल दिने जातेऽस्मिन्हिंसकातङ्कवादी-आक्रमणे मृत्युप्राप्तानां गुजरातराज्यवासिनां त्रयाणां जनानां गुरुवासरे अन्त्यसंस्कारः सम्पन्नः।भावनगरनगरे पिता–पुत्रयोः अन्त्यसंस्कारात् पूर्वं मुख्यमन्त्री भूपेन्द्र पटेलः तथा श्रीरामकथावाचकः मोरारीबापुः श्रद्धाञ्जलिं समर्प्य तयोः स्मृतिं वन्दितवन्तौ।सूरतनगरे मृतस्य पर्यटकस्य शैलेष कलथिया इत्यस्य श्रद्धाञ्जलिं समर्पयितुं केन्द्रीयजलशक्तिमन्त्री सी.आर. पाटिलः तथा गृहराज्यमन्त्री हर्षसङ्घवी अपि आगतवन्तौ।

अस्मिन्आक्रमणे सूरतजनपदस्य शैलेष कलथिया तथा भावनगरस्य यतीश परमार्, स्मित परमार् च हताः। एतेषां त्रयाणां शवानि विमानमार्गेण गुजरातं नीतानि।भावनगरस्थे सिन्धुनगरश्मशाने पिता–पुत्रयोः अन्त्यसंस्कारः सम्पन्नः, यस्मिन् सहस्रशः जनाः सम्मिलिताः। एतस्मिन् सन्दर्भे पालिताणाक्षेत्रे सर्वे दुकानदाराः स्वेच्छया बन्दं कृतवन्तः।सूरतनगरे कठोरश्मशाने शैलेषस्य अन्त्यसंस्कारः जातः। श्रद्धाञ्जलिकायां केन्द्रीयमन्त्री सी.आर. पाटिलः तथा मन्त्री हर्षसङ्घवी उपस्थितौ आस्ताम्।श्रद्धाञ्जलिकाले मृतस्य पत्नी स्वदुःखं व्यक्तं कृत्वा रोषं प्रकटितवती। सा उक्तवती यत् मुस्लिमजनाः न बाधिताः, केवलं हिन्दूनामेव वधः जातः। ते मृत्युपर्यन्तं तिष्ठन्तः हास्यं कुर्वन्तः अपि दृष्टाः।तथा सा आरोपं कृतवती – कश्मीरस्य दोषं नास्ति, दोषः शासनस्य सुरक्षाव्यवस्थायाः च। तत्र बहवः पर्यटकाः सन्ति, परन्तु सैन्यं, आरक्षकाः, वैद्यकीयशिबिरं वा न दृश्यते स्म।एवं मृतकपत्नी उक्तवती यत् यदि देशस्य सेना एव पर्यटकान् वर्जयति, तर्हि अन्यः कः किम् वदेत्? सेना यदि उत्तरदायित्वं न स्वीकरोति, तर्हि पर्यटकान् तत्र गन्तुं कथं अनुमन्यते? तथा सा सर्वकारस्य वी.आई.पी.संस्कृतेः अपि कठोरं प्रश्नं कृतवती।

हिन्दुस्थान समाचार