Enter your Email Address to subscribe to our newsletters
जयपुरम्, 24 अप्रैलमासः (हि.स.)।
प्रवर्तननिदेशालयेन जलजीवनमिशन् (जेजेएम्) नामकस्य भ्रष्टाचारस्य संदर्भे दिवसपर्यन्तं पृष्टपूर्वकं कांग्रेस्-पक्षस्य नेता पूर्वमन्त्री च महेश जोशी इत्यस्य निग्रहणं कृतम्। प्राप्तवृत्तेः अनुसारं बहूनि नोटिस्प्रेषणानि कृत्वा, गुरुवासरे प्रातःकाले महेश जोशी स्वस्य एकेन निजीसहायकेन सह ईडी-मुख्यालयं गतः। तत्र ईडी-अधिकारिणः जलजीवनमिशन् योजनायाः आर्थिक-अनियमितासम्बद्धे विषये तेन सह पृष्टवन्तः, ततः सायं समये तं गिरफ्तारं कृतवन्तः।
निदेशालयेन उक्तं यत्, “महेश जोशीं पृच्छार्थं बहुशः आमंत्रितवन्तः स्म, किन्तु सः व्यक्तिगतकारणानां कारणेन उपस्थितुं न शक्नोत्।” सूचना अनुसारं जोशीमहाभागाय किञ्चन दस्तावेजाः दर्शिताः, येषां विषये तस्मात् उत्तरं याचितम्।
विशेषतया ज्ञेयं यत् जेजेएम्-घोटलः केन्द्रसरकारया प्रवर्तितस्य हर घर नल योजना इत्यस्य भागः अस्ति। वर्षे 2021 तमे श्रीश्यामट्यूबवेल्-कम्पनी च मैसर्स् श्रीगणपति ट्यूबवेल्-कम्पनी इत्येतयोः ठेकेदारौ पदमचन्द जैन तथा महेश मित्तल इत्येतौ कृत्रिम-अनुभव-प्रमाणपत्राणि दर्शयित्वा जलदायविभागतः कोट्यधिकरूप्यकाणां चारि टेण्डर इति प्राप्तवन्तौ।
श्रीगणपति ट्यूबवेल्-कम्पनी कृत्रिमकार्यप्रमाणपत्रैः पीएचईडी विभागस्य 68 निविदासु भागं गृहीतवती, यत्र 31 टेण्डरासु एल-1 इत्युपाध्या 859.2 कोटिरूप्यकाणां टेण्डरान् प्राप्तवती। श्रीश्याम ट्यूबवेल्-कम्पनी 169 निविदासु भागं गृहीत्वा 73 निविदासु एल-1 इति भूत्वा 120.25 कोटिरूप्यकाणां टेण्डर इति प्राप्तवती।
अस्मिन्भ्रष्टाचारे प्रकाशे आगते, एसीबी (भ्रष्टाचारनिरोधकविभागः) जांचम् आरब्धवती। अनेकान् भ्रष्टाधिकारिणः गृहीतान्। ततः ईडी विभागेन अपि प्रकरणं प्रवर्तितं, यत्र महेश जोशी तस्य च सहकारी सञ्जय बड़ाया सहितानां ठिकाणेषु छापा दत्तम्। अनन्तरं सीबीआई द्वारा 3 मे 2024 दिनाङ्के प्रकरणं दर्तं कृतम्। ईडी विभागेन 4 मे दिनाङ्के स्वस्य संपूर्ण-जांचायाः प्रमाणानि दस्तावेजाः च एसीबी विभागाय समर्पितानि।
पूर्वमुख्यमन्त्री अशोकगहलोतः महेश जोशी महाभागस्य गिरफ्तारीं प्रतिकारात्मिका इति निर्दिश्य सोशल् मिडिया मध्ये लिखितवान्—
भाजपायाः एक्सटॉर्शनडिपार्टमेंट् इति रूपेण कार्यशीलः ईडी विभागः पूर्वमन्त्री महेश जोशीस्य निग्रहणं राजनीतिकप्रतिकारस्य दृष्टान्तरूपेण करोत्। एषा गृहीता तस्मिन् समये जाता यः समयः अस्ति यत्र तस्य भार्या जयपुरे एका चिकित्सालये विगते 15 दिनात् मूर्छितावस्थायां जीवनमरणयोः मध्ये संघर्षं कुर्वती वर्तते। तस्यै इच्छा आसीत् यत् सा कष्टस्थितेः बहिर्गत्वा पश्चात् ईडी विभागे स्वबयानं दद्यात्। एषः प्रयासः तं भावनात्मकतया दुर्बलं कृत्वा इच्छितं वक्तव्यं प्राप्तुं कृतम्।
---------------
हिन्दुस्थान समाचार