अधुना आतंकवादः अंतिमं श्वासं गृह्णन्नस्ति- योगी आदित्यनाथः
कानपुरम्, 24 अप्रैलमासः (हि.स.)।जम्मू-कश्मीरप्रदेशस्य पहलगामप्रदेशे जातेऽस्मिन् आतङ्कवादीआक्रमणे व्यापारी शुभं द्विवेदी चान्ये च निर्दोषनिहतजनाः येन क्रूरतया हता: अभवन्, तेषां सर्वेषां हत्या-अपराधानां प्रतिशोधः अवश्यमेव दास्यते। अस्य घृणितस्य कृत्यस्
पार्थिव शरीर को श्रद्धांजलि देते सीएम योगी आदित्यनाथ


पीड़ित परिजनों से बातचीत करते सीएम योगी आदित्यनाथ


कानपुरम्, 24 अप्रैलमासः (हि.स.)।जम्मू-कश्मीरप्रदेशस्य पहलगामप्रदेशे जातेऽस्मिन् आतङ्कवादीआक्रमणे व्यापारी शुभं द्विवेदी चान्ये च निर्दोषनिहतजनाः येन क्रूरतया हता: अभवन्, तेषां सर्वेषां हत्या-अपराधानां प्रतिशोधः अवश्यमेव दास्यते। अस्य घृणितस्य कृत्यस्य उत्तरदायित्वं स्वीकृत्य प्रतिशोधकार्यम् आरब्धं वर्तते।

अधुना आतङ्कवादः स्वस्य अन्तिमं श्वासं गच्छति। दहशतगर्दिभिः स्त्रीणां पुरतः एव तासां पतीनां वधः कृतः। अस्य प्रतिशोधं डबल् इंजन् सर्वकारं नूनं दास्यति।एतानि वाक्यानि उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेन गुरुवासरे कानपुरनगरं प्राप्तः सन् उक्तानि। यदा शुभस्य पार्थिवं शरीरं तस्य पितृग्रामं रात्रौ प्राप्तं, तदा ग्रामे सर्वत्र हाहाकारः अभवत्। बान्धवाः परस्परं कन्धरे शिरः स्थाप्य रोदनं कुर्वन्तः दृष्टाः।मुख्यमंत्री योगी आदित्यनाथः हाथीपुरग्रामं आगत्य पीडितपरिवारस्य सदस्यैः सह मिलित्वा, शुभं प्रति श्रद्धाञ्जलिं अर्पितवान्। तत्र शुभस्य भार्या एशानी उक्तवती मम पुरतः एव मम पतिं ललाटे गोलीप्रहारः कृतः। किन्तु तत्पूर्वं तस्य धर्मः अपृच्छ्यत। कश्चन अपि यावत् चिन्तयति, तावत् तत्र स्थिताः सर्वे अपि क्रमशः गोलीप्रहारेण हताः।मुख्यमंत्री योगी आदित्यनाथः परिवारस्य दुःखं विभज्य उक्तवान् यत् एषा दुःखदावस्थाः प्रशासनात् आरभ्य शासनपर्यन्तं सर्वे परिवारसहिताः सन्ति। आतङ्कवादिनः एतां निन्द्यां क्रियाम् अकुर्वन्। अधुनैव प्रतिकारस्य कालः प्राप्तः। आतङ्कवादिनां शवपेटिकायां अन्तिमं कीलकं स्थापितुं आरम्भः अपि जातः।

डबल् इंजन् सर्वकारः सम्पूर्णतया पीडितपरिवारेण सह स्थितवान् अस्ति। यैः एषा घटना क्रियते, तेषां प्रति शून्यसहिष्णुता नीतिः दर्शिता भविष्यति। येन प्रकारेण आतङ्कवादिनः निर्दोषजनानां हत्या अकुर्वन्, तेनैव प्रकारेण तेषां नायकानां च दण्डः निश्चितः। अस्मिन् षड्यन्त्रे ये अपि संलग्नाः स्युः, तान् न कश्चन मोक्ष्यति।

हिन्दुस्थान समाचार