किन्नरसमाजः आतंकवादिभिः योद्धुं सीमापारं गंतुं सज्जः पवित्रानंदगिरीमहाराजः
जोधपुरम्, २४ अप्रैलमासः(हि.स.)। उज्जयिन्याः किन्नर-अखाडस्य महामण्डलेश्वरः पवित्रानन्दगिरिमहाराजः जोधपुरं आगतः। सः पत्रकारसम्मेलने अब्रवीत्— किन्नरसमाजः अपि सीमायां गत्वा आतंकवादिनां प्रति युद्धं कर्तुं सज्जः अस्ति। तेन केन्द्रसर्वकारं प्रति याचितम् य
jodhpur


जोधपुरम्, २४ अप्रैलमासः(हि.स.)। उज्जयिन्याः किन्नर-अखाडस्य महामण्डलेश्वरः पवित्रानन्दगिरिमहाराजः जोधपुरं आगतः। सः पत्रकारसम्मेलने अब्रवीत्— किन्नरसमाजः अपि सीमायां गत्वा आतंकवादिनां प्रति युद्धं कर्तुं सज्जः अस्ति। तेन केन्द्रसर्वकारं प्रति याचितम् यत् आतङ्कवादिनः चौरस्थले फांसनं दीयताम्।जम्मू-कश्मीरप्रदेशे आतङ्कवादिनां कृतेन निरपराधपर्यटकानां वधेन सह सः गम्भीरं शोकं व्यक्तवान्। तेन उक्तम् यत् आतङ्कवादिनां प्रति मम मनसि तीव्रः क्रोधः अस्ति। सः पुनः पुनः अवदत् यत् किन्नरसमाजः सीमायां गत्वा राष्ट्रं रक्षितुं सिद्धः अस्ति। पाकिस्तानदेशस्य प्रेरणया एते अधर्मी आतङ्कवादिनः भारतदेशं विनाशयितुम् इच्छन्ति, किन्तु वयं तं कदापि साधयितुं न दास्यामः।महामण्डलेश्वरः उक्तवान् यत् अस्माकं देशे न जातिपाती-वादः न च भेदभावः अस्ति, अपितु सर्वधर्मसम्मानः अस्ति। तथापि एते अधर्मी आतङ्कवादिनः हृदयविदारकं कर्म कृतवन्तः, यत् अतीव निन्दनीयम् अस्ति। एषां न कश्चन धर्मः अस्ति, अतः सर्वाधिकं दण्डं, अथवा जनतायै समर्पणम्, एषां प्रति करणीयम्।

कुम्भमेलायाः विषये महामण्डलेश्वरः पवित्रानन्दगिरिः उक्तवान् यत् एषः कुम्भमेलन विशेषः संयोगः आसीत्, यः १४४ वर्षेभ्यः परं प्राप्तः। अस्मिन कुम्भे सनातनसंस्कृतेः महत्त्वं सम्पूर्णदेशे प्रत्यक्षं जातम्, यत्र युवकानां अपि महद् योगदानं आसीत्।

अन्ते सः स्वजीवनं प्रति उक्तवान्— वयं ते एव किन्नराः स्मः ये गृहेषु गत्वा तालिं कृत्वा आशीर्वादं दत्तवन्तः, अद्य तु सहस्रशः जनाः एकं रूप्यकं सिकतं च आशीर्वादं च प्राप्नुयु:। एषः सुखदः संयोगः अस्ति। भगवतः श्रीरामस्य वाक्यम्— 'कलियुगे मम राज्यं भविष्यति', एतत् अद्य सत्यं जातम्।

हिन्दुस्थान समाचार