मध्‍य प्रदेशे तीव्रोष्णतायाः प्रभावः प्रारब्धः , अद्य ग्वालियरं समेत्य 21 जिलासु तप्तलहरी संकेतिता
- अग्रिमेषु द्वित्रिदिनेषु स्वल्पप्रमाणेन वृष्टेःअनुमानम् भोपालः, 24 अप्रैलमासः (हि.स.)।मध्यप्रदेशराज्ये दिवाकरः इवाग्निशिखाः विसृजति। रतलामजनपदे तापमानं ४४ अंशात् अतिक्रान्तं जातम्। अद्य गुरुवासरे एकविंशतौ जनपदेषु लू इत्याख्यया तीव्रतापप्रवाहस्य सू
प्रतीकात्‍मक फोटो


- अग्रिमेषु द्वित्रिदिनेषु स्वल्पप्रमाणेन वृष्टेःअनुमानम्

भोपालः, 24 अप्रैलमासः (हि.स.)।मध्यप्रदेशराज्ये दिवाकरः इवाग्निशिखाः विसृजति। रतलामजनपदे तापमानं ४४ अंशात् अतिक्रान्तं जातम्। अद्य गुरुवासरे एकविंशतौ जनपदेषु लू इत्याख्यया तीव्रतापप्रवाहस्य सूचना प्रदत्ता अस्ति। राज्ये चागामिद्वित्रिदिनेषु लघुवृष्टेः सम्भावना अस्ति। मौसमविभागेन छिन्द्वाडा, पाण्डुर्णा, सिवनी, मण्डला, बालाघाटे च वर्षा सम्भाव्यते इत्युक्तम्।

ततः पूर्वं सम्पूर्णे प्रदेशे तप्तलहर्याः सूचना आसीत्। वातावरणविभागस्य अनुसारं, अद्य गुरुवासरे इन्दौर, उज्जैन, ग्वालियर, सागरसंभागे च तीव्रतापः भविष्यति, अत्र अपि लू इत्यस्य सम्भावना अस्ति। अनन्तरं द्वयोः दिनयोः पूर्वदक्षिणप्रदेशभागेषु लघुवृष्टिः सम्भवति।

गुरुवासरे ये जनपदाः तप्तलहरीग्रस्ताः भविष्यन्ति, तेषां नामानि—ग्वालियर, मुरैना, भिण्ड, नीमच, मन्दसौर, रतलाम, खण्डवा, बुरहानपुर, नर्मदापुरम्, बैतूल्, पाण्डुर्णा, छिन्द्वाडा, बालाघाट, उमरिया, सतना, पन्ना, दमोह, सागर, छतरपुर, टीकमगढ्, निवाडी च। भोपाल, इन्दौर, उज्जैन, जबलपुर च अन्ये जनपदाः अपि उष्णतायाः प्रभावं अनुभविष्यन्ति, यत्र तापमानं ४२ अंशात् अधिकं गमिष्यति।

गतबुधवासरे अपि तीव्रोष्णतया जनाः पीडिताः। मालवा-निमाड् जनपदेषु तीव्रतमः तापः प्राप्तः, यत्र रतलामे तापमानं ४४.२ अंशं प्राप्तम्। नर्मदापुरम्, खजुराहो-मण्डला ४३.२ अंशम्, सिवनी ४२.६, नरसिंहपुरम् ४२.४, टीकमगढ्-शिवपुरी ४२.२, नौगांव, रीवा-मलाजखण्ड ४२ अंशं प्राप्तम्। खरगोन, दमोह, धार, उमरिया, सागर, सतना, सीधी, गुना, बैतूल, शाजापुर, रायसेन, खण्डवा, छिन्द्वाडा इत्येषु ४१ अंशं वा तस्मात् अधिकं तापमानं निबद्धम्।

महानगराणां विषये—उज्जैननगरे सर्वाधिकं ४१.७ अंशं, ग्वालियर-उज्जैनयोः ४१.२, इन्दौरे ४१, भोपालनगरे ४०.६ अंशं सेल्सियस इति तापमानं प्राप्तम्। अनेकेषु नगरेषु तप्तलहर्याः तीव्रं प्रभावोऽपि दृष्टः।

हिन्दुस्थान समाचार