विलम्बरात्रौ तस्य पैतृकग्रामं हाथीपुरं प्राप्तं शुभमस्य पार्थिवं शरीरं, राजकीयसम्मानपूर्वक विधीयते अन्त्येष्टि
-कैबिनेट्-मन्त्री राकेशः सचान् उच्च-शिक्षा-मन्त्री योगेन्द्रः उपाध्यायः च अपि एम्बुलेन्स्-सहितं समागतौ कानपुरम्, 24 अप्रैलमासः (हि.स.)। पहलगामे जाते आतङ्कवादिनाम् आक्रमणे प्राणान् हतवतः व्यापारिणः शुभमद्विवेदी इत्यस्य पार्थिवं शरीरं बुधवासरे विलम्
पार्थिव शरीर लेकर आते कैबिनेट मंत्री राकेश सचान व उच्च शिक्षा मंत्री


शव पहुंचते ही एक झलक पाने के लिए दौड़े परिजन व ग्रामीण


-कैबिनेट्-मन्त्री राकेशः सचान् उच्च-शिक्षा-मन्त्री योगेन्द्रः उपाध्यायः च अपि एम्बुलेन्स्-सहितं समागतौ

कानपुरम्, 24 अप्रैलमासः (हि.स.)।

पहलगामे जाते आतङ्कवादिनाम् आक्रमणे प्राणान् हतवतः व्यापारिणः शुभमद्विवेदी इत्यस्य पार्थिवं शरीरं बुधवासरे विलम्बरात्रौ हाथीपुरग्रामं प्राप्तम्। शवस्य आगमनेन सह बान्धवानां मध्ये शोकावेशः उत्पन्नः। यं पश्यसि सः एव अश्रुपूर्णनेत्राभ्यां दृश्यते स्म। क्रन्दद्भिः बान्धवैः अपराधिनां विरुद्धं कठोरतमा प्रक्रिया करणीयमिति याच्यते।

ततः पूर्वं शुभमस्य शवम् विशेषविमानेन लखनऊस्थं चौधरी चरणसिंह अन्तरराष्ट्रीयविमानपत्तनम् आगतम्। तत्र उपमुख्यमन्त्री बृजेशः पाठकः मृतं प्रति श्रद्धाञ्जलिं निवेद्य बान्धवैर्सह मिलित्वा केन्द्रराज्ययोः सर्वकारयोः पक्षतः सर्वकार्यमकं साहाय्यम् आश्वासनं प्रदत्तवान्। ततः परं चतुर्दशयानवाहनानि योजित्वा कैबिनेट्-मन्त्री राकेशः सचान् उच्चशिक्षामन्त्री च योगेन्द्रः उपाध्यायः अमौसी-विमानपत्तनात् कानपुरे स्थितं हाथीपुरग्रामम् एम्बुलेन्स्-सहितं प्राप्तवन्तौ।

शान्तिर्मध्ये एम्बुलेन्स् आगत्य एव सर्वतः क्रन्दनरवः प्रवर्तितः। बान्धवाः परस्परं कन्धरे शिरांसि स्थाप्य अश्रुपातेन रुदन्तः दृश्यन्ते स्म। तत्रैव स्थितैः परिवारस्य अन्यैः सदस्यैः एम्बुलेन्सतः शवम् अवतीर्य गह्वरशीतकपात्रे स्थापितम्। गुरुवासरे महाराजपुरे स्थिते ड्योढीघाटे राजकीयसम्मानसहितं पार्थिवशरीरस्य अन्त्येष्टिः सम्पादिता भविष्यति।

अत्र तु घटनायाः प्रतिक्षणवृत्तान्तं मुख्यमन्त्री योगी आदित्यनाथः अपि स्वीकरोति स्म। कथ्यते च यत् अन्त्येष्टिसंस्कारसमये मुख्यमन्त्री योगी आदित्यनाथः भारतीयजनतादलस्य प्रदेशाध्यक्षः भूपेन्द्रः चौधरी च अपि गुरुवासरे कानपुरनगरं प्राप्य सम्मिलिष्येते।

हिन्दुस्थान समाचार