पश्चिम माछखुवायां प्रवातयुतया वृष्ट्या महतीक्षतिः
लखीमपुरम्(असमः), 24 अप्रैलमासः (हि.स.)। बुधवासरस्य रात्रौ जातया तीव्रया आन्ध्या मूसलधारवृष्ट्या च ढकुवाखाना-समजिलाक्षेत्रे महान् विनाशः जातः। अस्यां प्राकृतिकविपत्तौ अनेकानि गृह-आङ्गनानि विनष्टानि, विद्युच्छक्तेः स्तम्भाः महान्तः वृक्षाः च भूमौ पतित
पश्चिम माछखुवायां प्रवातयुतया वृष्ट्या महतीक्षतिः


लखीमपुरम्(असमः), 24 अप्रैलमासः (हि.स.)। बुधवासरस्य रात्रौ जातया तीव्रया आन्ध्या मूसलधारवृष्ट्या च ढकुवाखाना-समजिलाक्षेत्रे महान् विनाशः जातः।

अस्यां प्राकृतिकविपत्तौ अनेकानि गृह-आङ्गनानि विनष्टानि, विद्युच्छक्तेः स्तम्भाः महान्तः वृक्षाः च भूमौ पतित्वा मार्गान् अबाधयन्, येन सम्पूर्णक्षेत्रे सम्पर्कव्यवस्था निरुद्धा अभवत्।

मुख्यतया गंधिया, धेनुखाना बाटमारी, शिंगिया-पञ्चायतीनाम् प्रदेशेषु गृहाणां वृक्षाणां च महान् क्षतिः अभवत्। पश्चिम-माछखुवा-प्रदेशस्य गंधिया, घारमरा, विजयपुर, कठालपरा, नव-मधुपुर, मधुपुर-बागान इत्यादीनां ग्रामेषु आन्ध्या-वृष्ट्या जनजीवनम् अस्तव्यस्तम् अभवत्।

तथैव अन्येभ्यः ग्राम्यप्रदेशेभ्यः अपि तूफान-वृष्ट्योः विनाशस्य समाचाराः आगताः, यत्र अनेके कुटुम्बाः निःस्वगृहा अभवन्, रात्रौ च विकटावस्थां प्राप्ताः।

ढकुवाखाना-नगरपरिषद्क्षेत्रस्य बहुषु मुख्यमार्गेषु जलभरस्य स्थितिः उत्पन्ना। विद्युत्-आपूर्ति पूर्णतया स्थगिता। मार्गेषु पतितैः महद्भिः वृक्षैः बहवः मार्गाः सम्पूर्णतया अवरुद्धाः जाताः।

हिन्दुस्थान समाचार