Enter your Email Address to subscribe to our newsletters
• मुख्यमंत्री मिलित्वा शोक संतप्त परिवारजनेभ्यो दत्तवान् सांत्वनाम्
भावनगरम्, 24 अप्रैलमासः (हि.स.)।गुजरातराज्यस्य मुख्यमन्त्री भूपेन्द्रपटेलः २२ अप्रील् २०२५ तमे दिने जम्मू-कश्मीरप्रदेशे पहलगाम् इत्यस्मिन्स्थले जाते आतङ्कवादी-आक्रमणे मृत्युञ्जप्तयोः भावनगरनगरवासिनोः पिता–पुत्रयोः गृहमागत्य गुरुवासरे प्रातःकाले श्रद्धाञ्जलिं अर्पितवान्।
भावनगरनगरस्य काळियाबीड्–प्रदेशे नंदनवन्–संसदि वसतः यतीशभैः सुधीरभैः परमारः तस्य च पुत्रः स्मित् यतीशभैः परमारः एते उभौ उक्ते आतङ्कवादी-आक्रमणे प्राणान् त्यक्तवन्तौ।
तयोः पार्थिवशरीरे श्रीनगरनगरात् मुम्बैनगरं, ततः अहमदाबादनगरं प्रति इंडिगोविमानेन नीतानि। रात्रेः मध्यसमये अहमदाबादतः भावनगरं प्रत्यागमनं जातम्।
मुख्यमन्त्री भूपेन्द्रपटेलः गुरुवासरे प्रातःकाले शोकाकुलं परिवारं सान्त्वनाय तेषां गृहं गत्वा, दिवङ्गतयोः स्मृतौ श्रद्धाञ्जलिं समर्प्य तयोः आत्मनां शान्तये प्रार्थनाम् अकरोत्।
एतस्मिन् अवसरे केन्द्रीयराज्यमन्त्री निमुबेन बांभणिया, राज्यमन्त्री कुंवरजीभैः बावळिया, महापौरः भरतभैः बारडः, विधायकः जीतुभैः वाघाणी, सेजलबेन पण्ड्या, भीखाभैः बारैया, गौतमभैः चौहाणः, जिल्हाप्रशासकः डॉ. मनोजकुमार बंसलः, जिल्लाविकासाधिकारिणी हनुलचौधरी, रेंजपुलिसमहा-निरीक्षकः गौतमपरमारः चान्ये च बहवः श्रद्धांजलिं समर्पितवन्तः।
---------------
हिन्दुस्थान समाचार