Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 25 अप्रैलमासः (हि.स)। केंद्रीयः अप्रत्यक्षकरसीमाशुल्कपरिषद् शुक्रवासरे वायुमालवहनाय प्रयुज्यमानानां यन्त्रपात्राणाम् अस्थायीयआयातप्रक्रियां सरलां कृतवती।
यूनिट् लोड् डिवाइस इत्यस्य यन्त्रपात्रस्य उपयोगः विमानमार्गे यात्रिकान् च मालवस्तूनि च आरोप्य तानि सुरक्षितुं क्रियते।
अनेन उपायेन व्यापारसुगमता प्रवर्धिष्यते।
वित्तमन्त्रालयेन प्रकाशिते घोषणापत्रे उक्तं यत् केंद्रीयः अप्रत्यक्षकरसीमाशुल्कपरिषद् यूनिट् लोड् डिवाइस् अथवा विमानयन्त्रपात्राणाम् अस्थायीयआयाताय प्रक्रिया सरला च सुसंगता च कृतवती।
तदन्यत् सीबीआईसी संस्थया चतुर्विंशतितमे अप्रैलमासे आरभ्य सर्वेषां ट्रांसशिपमेंटगतिनां कृते ट्रांसशिपमेंटअनुमतिशुल्कस्य माफीकरणं अपि निर्णयीकृतम्।
एषः उपायः व्यापारं सुविधाजनकं कर्तुं प्रयोजनतः स्वीक्रियते।
मन्त्रालयस्य मतानुसारं अस्मिन् सम्बन्धे अधिसूचनासङ्ख्या 30/2025-सीयूएस् (एनटी) दिनाङ्के 24 अप्रैल् 2025 https://www.cbic.gov.in/f2d0927b-945d-411c-8c34-65d272a6d047 इत्यस्य माध्यमेन विनियमेषु परिवर्तनानि प्रकाशितानि सन्ति।
सीबीआईसी संस्थया उच्चमूल्ययुक्तानां शीघ्रं नश्यन्तीनां बागवत्युत्पन्नानां च समावेशेन विमानमालवहनाय आधारसंरचनायाः कोशविकासस्य च सुविधा, मालपरीक्षणप्रणालीं सीमाशुल्कप्रोटोकॉलं च सुव्यवस्थितुं, उपयोगकर्तृसुलभं च कर्तुं, विशेषरूपेण वायुमालवहनक्षेत्रे सामान्यतया च ट्रांसशिपमेंटगतिषु अनेके व्यापारसुगमोपायाः प्रवर्तिताः।
सूचनीयं यत् केंद्रीयवित्तनिगमविषयमन्त्री निर्मलासीतारमणया केंद्रीयराजस्वे 2025–26 एषा घोषणा कृता आसीत्।
---------------
हिन्दुस्थान समाचार