Enter your Email Address to subscribe to our newsletters
कोलकाता, 25 अप्रैलमासः, (हि. स.)।पश्चिमबंगालस्य पूर्वमेदिनीपुरजनपदे स्थिते समुद्रतीरवर्तीपर्यटनस्थले दीघायां आगामिनि 28 अप्रैलतिथेः आरभ्य आरभ्यमाने त्रिदिनीयश्रीजगन्नाथमन्दिरोद्घाटनसमारम्भे विषये सुरक्षायाः कठोरव्यवस्था कृता अस्ति। एषः मन्दिरः ओडिशाराज्ये स्थितस्य प्रसिद्धस्य पुरी-श्रीजगन्नाथमन्दिरस्य अनुकरणेन निर्मितः अस्ति।
मुख्यमन्त्री ममताबॅनर्जी 30 अप्रैलतिथेः अक्षयतृतीयायाः शुभपर्वणि समारम्भे सम्मिलिता भविष्यति। सा 28 अप्रैलतिथेः कोलकातातः दीघां गमिष्यति। 29 अप्रैलतिथेः मन्दिरपरिसरे विशेषमहायज्ञस्य आयोजनं भविष्यति।
पूर्वमेदिनीपुरजनपदस्य पुलिसअध्यक्षेन सौम्यदीपभट्टाचार्येन कथितं यत्, त्रिदिनानां कालपर्यन्तं प्रायः द्विसहस्रं पुलिसकर्मिणः नियुक्ताः सन्ति। अत्रैव च साद्वस्त्रधारी विशेषसुरक्षाबलः च पुलिसकर्मिणः च मन्दिरपरिसरं दीघायाः प्रमुखस्थलेषु च तैनाताः भविष्यन्ति।
ड्रोनयन्त्रेण निगरक्षणव्यवस्था च, सी.सी.टी.वि.क्यामेराः अपि स्थापिता:। विशेषतः 30 अप्रैलदिने यदा मुख्यमन्त्री समारम्भे भागं ग्रहीष्यति, तदा सम्पूर्णसुरक्षायाः उपायाः अधिकतरं सक्रियाः भविष्यन्ति।
तदनन्तरं प्रवेश-निर्गमनमार्गेषु वाहनानां कठोरनिरीक्षणं क्रियते। यत् कोऽपि संदिग्धः कृत्यं न भवेत् इति कारणात् प्रत्येकं वाहनं परीक्ष्यते। मन्दिरपरिसरे विशेषप्रशिक्षितः सशस्त्रकमाण्डोबलः अपि स्थितः भविष्यति।
एतेषु मध्ये मन्दिरस्य नामकरणं विषये राजनैतिकविवादः अपि उत्पन्नः अस्ति। विधानसभायां विपक्षनेता शुभेन्दु अधिकारी मुख्यमन्त्रिणं ममताबॅनर्जीमुद्दिश्य पृष्टवन्तः यत्, मन्दिरस्य नाम ‘श्रीजगन्नाथमन्दिर’ इति न स्थापितं, किमर्थं तस्य नाम ‘जगन्नाथधाम-सांस्कृतिककेन्द्र’ इत्येव स्थाप्यते इति स्पष्टं कर्तव्यम्।
ते मुख्यमन्त्रिणं प्रति निवेदनं कृतवन्तः यत् सर्वेषु शासकीयप्रपत्रेषु मन्दिरस्य नाम ‘श्रीजगन्नाथमन्दिर’ इति परिवर्तनीयं, च तदर्थं त्वरितनिर्देशः अपि प्रदातव्यः।
हिन्दुस्थान समाचार